________________
३ समन्वयाधिकरणम्।
अ. १ पा. १ म्. ;
तत्तु समन्वयात् ॥ ११॥३॥ तशब्दः पूर्वपक्षव्यावृत्त्यर्थः । निमित्तत्वस्य श्रुतिसिद्धत्वान्मतान्तरनिराकरणत्वेनाग्रे वक्ष्यते । तद्ब्रह्मैव समवायिकारणम् । कुतः । समन्वयात् सम्यगनुवृत्तत्वात् । अस्तिभातिप्रियत्वेन सच्चिदानन्दरूपे५ णान्वयात् । नामरूपयोः कार्यरूपत्वात् । प्रकृतरपि स्वमते तदंशत्वात् । अज्ञानात्परिच्छेदाप्रियत्वे । ज्ञानेन बाधदर्शनात् । नानात्वं त्वैच्छिकमेव । जडजीवान्तर्यामिष्वेवैकैकांशप्राकट्यात् । कथमेवमिति चेत् । न । सद्रपे घटरूपक्रियास्विव तारतम्येनाविर्भाववत् जडेपि भावनात्वादिप्रतीतेस्तार
तम्येनाविर्भावोङ्गीकर्तव्यः । भगवदिच्छाया नियामकत्वात् । न च १० साधारण्येन सर्वजगत्प्रति परमाण्वादीनामन्वयः संभवति । एकस्मिन्ननु
स्यूते संभवत्यनेककल्पनाया अन्याय्यत्वात् । लोके कर्तृविशेषवदुपादानविशेषग्रहणेपि न ब्रह्मणि व्यभिचारः । अलीकप्रतीतेस्तित्वादिप्रतीतावपि सम्यगन्वयाभावान्न कार्यत्वव्यभिचारौ । तस्माद्ब्रह्मण एव समवायित्वम् ।
एतत्सर्वं श्रुतिरेवाह । स आत्मान" स्वयमकुरुत (ते. २-७ ) इति । १५ निमित्तत्वं तु स्पष्टमेव सर्ववादिसंमतम् ।।
केचिदत्र शास्त्रयोनित्वपूर्वपक्षनिराकरणाय-तत्तु समन्वयात् ( ब्र. सू. १-३ ) इति योजयन्ति । तत्पूर्वपक्षसिद्धान्तयोईयोरप्यसंगतत्वादुपेक्ष्यम् । तथाहि । जैमिनिर्धर्मजिज्ञासामेव प्रतिज्ञाय तत्प्रतिपादकस्य पूर्वकाण्डस्य समन्वयमाह । अवान्तरवाक्यानां प्रकारशेषत्वात् । २० न च सर्वस्मिन्वंदे धर्म एव जिज्ञास्यः । तद्गुरुणैव व्यासेन ब्रह्मजिज्ञा
सायाः प्रतिज्ञातत्वात् । संदेहमात्रवारकत्वान्जिज्ञासयोः । नत्वलौकिकार्थसाधकत्वम् । तथा सति वेदानामन्याधीनत्वेनाप्रामाण्यं स्यात् । वेदजिज्ञासेत्येवोक्तं स्यात् ।
किंच। साधनं च फलं चैव सर्वस्याह श्रुतिः स्फुटम् । न प्रवर्तयितुं शक्या तथा चेन्नरको न हि ॥ ९॥
२५
20-A and M read यतस्तदुरुणैव for तद्गुरुणैव । 26-$ reads शक्ता for शक्या।