________________
अ. १ पा. १ म्. २
अणुभाष्यम् ।
१२.
चन यज्ञश्वेद् ब्रह्म भवतु । न चैतावता वेदत्वमतिप्रसङ्गात् । शक्यते ह्यग्निहोत्रादीनामन्यतरदन्तर्भाव्य तथा वक्तम् । तस्माद ब्रह्मापि प्रतिपादयन्तो वेदान्ता वेदत्वं न व्यभिचरन्तीति । मन्त्रब्राह्मणरूपत्वं चोत्पश्यामः । ऋगेव मन्त्रः । ब्रह्मप्रतिपादकं ब्राह्मणम् । तच्छेषाः सृष्टयादि५ प्रतिपादकाः । यद्यपि न विधीयते तथापि तादृशमेव ज्ञानं फलायेति युक्तमुत्पश्यामः । पूर्ववैलक्षण्यं तु भूषणाय । काण्डद्वयस्यान्योन्योपकारित्वाय साधारणग्रहणम् । यदेव विद्यया करोति ( छां. १-१-१० ) इत्यादिना पूर्वशेषत्वं सर्वस्य । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ( बृ. ४–४–२२ ) इत्यादिना सर्वस्योत्तरशेषत्वम् । कर्मब्रह्मणोः १० क्रियाज्ञानयोर्धर्मिपरत्वेनैक्यात् कर्तृवाक्येषु सर्वत्र न विरोधः । तस्माच्छास्त्रयोनित्वं सिद्धम् ॥
1
केचिदत्र जन्मादिसूत्रं लक्षणत्वादनुमानामिति वर्णयन्ति । अन्ये पुनः श्रुत्यनुवादकमाहुः । सर्वज्ञत्वाय श्रुत्यनुसार्यनुमानं च ब्रह्मणि प्रमाणमिति । तत्तु–तं त्वौपनिषदं पुरुषं पृच्छामि (बृ. ३/९/२६ ) इति केवलोपनि१५ षद्वेद्यत्वादुपेक्ष्यम् । अनधिगतार्थगन्तृत्वात्प्रमाणस्य । मनननिदिध्यासनयोः श्रवणाङ्गत्वम् । सन्देहवारकत्वाच्छास्त्रस्यापि तदङ्गत्वमिति ॥ ११२ ॥
३ समन्वयाधिकरणम् ।
तत्रैतत्स्यात् । तत्र किं समवायि निमित्तं कर्तृ वा । किमत यद्येवम् । एवमेतत्स्यात् । येकमेव स्यात्तदा क्रियाज्ञानशक्तयोर्निरति२० शयत्वं भज्येत । मृदादिसाधारण्यं च स्यात् । मतान्तरवत् । कथमेवं संदेहः । श्रावता–यतो वा इमानि ( तै. ३ - १ ) इत्यादिभ्यो निःसन्देहश्रवणात् । एवं हि सः । पञ्चमी श्रूयते यत इति । पञ्चम्यास्तसिरिति । आत्मन इत्यपि पञ्चमीनिमित्तत्वेन संदेहः । पञ्चम्या निमित्तत्वकथनात् । उपादानत्वे कर्तृत्वे च संदेहः । तद्वाचकाश्रवणात् : कल्पनायां प्रमाणा३५ भावात् । समवायित्वे पुनः सुतरां संदेहः । एवं प्राप्त आह ।