________________
११
२ जन्माद्यधिकरणम् ।
२०
[ अ. १ पा १ म. २
अथवा किमनया कुसृष्ट्या | जन्माद्यस्य आकाशस्य यत इति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ( तै. २1१ ) इत्येव विचार्यते । फलसम्बन्धित्वात् तेनैकत्र सिद्धः शास्त्रार्थः प्रकारान्तरेपि । यतो वा इमानि (तै ३ - १ ) इत्यत्र विस्फुलिङ्गवत्सर्वोत्पत्तिः । अत्र तु क्रमेणेति ५ विशेषः । एतेन सर्व एव प्रकाराः सूचिता वेदितव्याः । ब्रह्मविचार ब्रह्मणोप्यधिकृतत्वात् तद्ब्रह्मेत्यायाति न त्वध्याहारः ।
शास्त्रे योनिः शास्त्रयोनिः । शास्त्रोक्तकारणत्वादित्यर्थः । शास्तीति शास्त्रं वेद: । सामान्यग्रहणं पूर्वकाण्डे पूर्वसृष्टिवाक्यानां संग्रहार्थम् । यथास्यैव कारणत्वं नान्यस्य तथोपरिष्टाद्वक्ष्यामः । मतान्तरवज्जन्मादीनां न १० विकारित्वं किंत्वाविर्भावतिरोभावावेव । तथोत्तरत्र वक्ष्यते तदनन्यत्वाधिकरणे ( ब्र. स. २-१-१५) । नामलीलाया अपि न पृथङ निरूपणं प्रपञ्चमध्यपातात् ।
केचित् पृथग्रूपनामप्रपञ्चकर्तृत्वं योगविभागेन प्रतिज्ञाय समन्वयादि - संत्रेष्वेव हेतुन्वर्णयन्ति । अन्वयसिद्ध्यर्थं च । अतति व्याप्नोतीत्यत् । शास्त्रे योनित्वं प्राप्तं तदिति । नैतत्सूत्रकारसंमतमिति प्रतिभाति ।
१५
तस्मात्सर्वज्ञत्वं सर्वशक्तिमन्वं च सिद्धं निरङ्कुशजगत्कर्तृत्वेन । ननु न सर्वो वेदो ब्रह्मणो जगत्कर्तृत्वे मानम् । तपोयज्ञादियुक्तप्रजापतिप्रभृतीनामेव जगत्कारणत्वस्य पूर्वकाण्डे तत्तदुपाख्यानेष्ववगम्यमानत्वात् । न चावान्तरकारणत्वम् । परस्याश्रवणात् । उत्तरकाण्डे तु द्वयप्रतिपादनाद्विरोधः । संदेहश्व । मीमांसायाः संदेह निवारकत्वेप्येकांशस्याप्रामाण्यं स्यात् । उभयसमर्थने शास्त्रवैफल्यं वा । वेदप्रामाण्यादेव तत्सिद्धेः । बाधितार्थवचनं वेदे नास्तीत्यवोचाम |
किंच । वेदान्ताः किं वेदशेषा वेदा वा । नायः । अनुपयोगात् । अनारभ्याधीतत्वेन तदुपयोगित्वे पूर्वकाण्डविचारेणैव गतार्थत्वं विद्या२५ प्रवेशश्च । न द्वितीयः । यज्ञाप्रतिपादनात् । मन्त्रब्राह्मणत्वाभावाच्च । तस्माद्वेदोषरा वेदान्ता इति द्वेषां किं स्यादिति चेत् । मैवम् । अस्ति तावद्वेदत्वमध्ययनादिभ्यः । स्मरणाच्च । प्रमाणं च सर्वोपि वेदः स्वार्थे । स