________________
अ. १ पा. १ सू. २ ]
अणुभाष्यम् ।
१०
धोस्ति सत्यत्वादिधर्मवत्कर्तृत्वस्याप्युपपत्तेः । सर्वथा निर्धर्मकत्वे सामानाधिकरण्यविरोधः । सत्यज्ञानादिपदानां धर्मभेदेनैव तदुपपत्तेः । न च कर्तृत्वं संसारिधर्मो देहाद्यध्यासकृतत्वादिति वाच्यम् । प्रापञ्चिके कर्तृत्वे तथैव । न त्वलौकिक कर्तृत्वे । अत एवास्येत्याह । अस्त ५ पुरोवर्ती प्रपञ्च इदमा निर्दिश्यते । अनेकभूतभौतिकदेवतिर्यङ्मनुष्यानेकलोकाद्भुतरचनायुक्तब्रह्माण्डकोटिरूपस्य मनसाप्याकलयितुमशक्यरचनस्यानायासेनोत्पत्तिस्थितिभङ्गकरणं न लौकिकम् । प्रतीतं च निषेध्यं नातीतं न श्रुतिप्रतीतम् । सत्यत्वादयश्व लौकिकास्ततः सर्वनिषेधे तदज्ञानंमेव भवेत् । न च सत्यत्वादिकं लोके नास्त्येव । व्यवहारमात्र१० त्वात् । कारणगतमेव सत्यत्वं प्रपञ्चे भासत इति वाच्यम् । तर्हि कर्तृत्वं तथा कुतो नाङ्गीक्रियते । स्मृतिश्व स्वीकृता भवति । कर्ता कारयिता हरि:इति । न चारोपन्यायेन वक्तुं शक्यम् । तथा सत्यन्यस्य स्यात् । तत्र न प्रकृतेः । अग्रे स्वयमेव निषिध्यमानत्वात् । न जीवानाम् । अस्वातन्त्र्यात् । न चान्येषाम् । उभयनिषेधादेव । तस्माद् ब्रह्मगतमेव कर्तृत्वम् । १५ एवं भोक्तृत्वमपि । न वा काचिच्छ्रति कर्तृत्वं निषेधति । विरोधभानास्कल्प्यातु लौकिकपरा | फलवाक्यप्यश्रुतानां गुणोपसंहारः कर्तव्यः ।
तथा चायं सूत्रार्थः । जन्म आदियेषामित्यवयवसमासादतद्गुणसंविज्ञानो बहुव्रीहिः । अथवा जन्मप्रभृति सर्वे भावविकारा आदिशब्देन गृह्यन्ते । तथाच जन्म च आदिश्वेत्येकवद्भावः । आदिशब्दश्च धर्मवाची २० सच स्वसम्बन्धिनं लक्षयति । तस्योभयसापेक्षत्वात् । उत्पत्तेर्विद्यमानत्वादन्यानेव भावविकारानुपलक्षयतीत्यादिशब्देनान्यं भावविकाराः । अथवा जन्मनो नादित्वम् । तदाधारस्य पूर्वमविद्यमानत्वात् । अन्ये त्वादिमन्तः । तदावारस्य पूर्व विद्यमानत्वात् । अत आदिशन्द: खानारसद्धर्मवाची तद्धर्माणामुपलक्षकः । अथवा गमनप्रवेशयामदाज्जन्म आदियेषामिति जात्यपेक्षयैकवचनम् । जन्म तु श्रुतत्वात् सिद्धम् ।
२५
10-A reads कारणगतं for कारणगतमंत्र