________________
२ जन्माद्यधिकरणम् । [अ. १ पा. १ सू. २ नहि श्रुतिं व्याख्यातुं प्रवृत्तः सूत्रकारः किंतु संदेहं वारयितुम् । तत्र-सत्यं ज्ञानमनन्तम् (ते. २-१ ) नित्यशुद्धमुक्तस्वभावम् (न. ता. ९) इति श्रुत्या कर्तृत्वादिप्रापच्चिकधर्मराहित्यं प्रतीयत। यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति ( तै. ३-१ ) इति ५ कर्तृत्वं च । तत्र संदेहः किं ब्रह्म कर्तृ। आहोस्विदकर्तृ । किं तावत् प्राप्तम् ।
अकर्तृ । कथम् । ब्रह्मविदाप्नोति परम् (ते. २-१) इति प्रधानवाक्यम् । फलसंबन्धात्। ऋचापि विवृतम् । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायाम् परमे व्योमन् । सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (ते. २-१)
इति । फलार्थं च ब्रह्मज्ञानं फलं च फलवाक्याक्तधर्मज्ञानादेव । नान्यथा। १० कर्तृत्वं च परविवरणतयोक्तम् । परं किमित्युक्तं यः सर्वान्तर आनन्द इति । कथं सर्वान्तरमित्याकाङ्क्षायां परिचयार्थं भूतभौतिकसृष्टिमुक्त्वा गौणानन्तर्यं परिहृतम् । गौणोपासनाफलं च प्रधानशेषतयोक्तम् । तत्रान्यगतकर्तृत्वारोपानुवादोपि सम्भवति । ततश्च-भृगुर्वै वारुणिः (ते. ३-१ )
इत्युपाख्यानेपि परिचायकत्वाद गौणकर्तृत्वमेवानूद्यते फलाश्रवणादिति १५ पूर्वः पक्षः।
सिद्धान्तस्तु । उत्पत्तिस्थितिनाशानां जगतः कर्तृ वै बृहत् । वेदेन बोधितं तद्धि नान्यथा भवितुं क्षमम् ।। ७ ।। नहि श्रुतिविरोधोस्ति कल्प्योपि न विरुध्यते । सर्वभावसमर्थत्वादचिन्त्यैश्वर्यवद् बृहत् ॥ ८ ॥
वेदेनैव तावत्कर्तृत्वं बोध्यते । वेदश्च परमाप्तोक्षरमात्रमप्यन्यथा न वदति । अन्यथा सर्वत्रैव तदविश्वासप्रसंगात् । न च कर्तृत्वे विरो
२०
(5-क om. अकर्तृ before कथम् ।
-क) and E read फलार्थे for फलार्थ । 9-A reads ब्रह्मज्ञानात for धर्मज्ञानात । 10-क reads किमित्युक्तं for किमित्युक्ते। 21-A, B and M read तावजगत्कर्तृत्वं for तावत्कर्तृत्वं ।
Broads मवाविश्वाम for मर्वत्र तदविश्वास । • २ [ अणभाष्य ।