________________
भ. १ पा. १ सू. १]
अणुभाष्यम् ।
शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि । श्रमस्तस्य फलं मन्ये ह्यधनुमिव रक्षतः ॥
(भा. ११-११-१८) इति भगवद्वचनात् केवलस्य निन्दाश्रवणादिति चेत् । न। फलकामनाया ५ अनुपयोगात् । अन्येनैव तत्समर्पणात् । नित्यत्वादप्यर्थज्ञानस्य न फलपेप्सुरधिकारी । निन्दार्थवादस्तु मननादिविधिशेष इति मन्तव्यम् ।
ननु ब्रह्मणो विचारे प्रतिज्ञाते विरोधनिराकरणादीनामप्रतिज्ञातार्थत्वम् । न चावक्तव्यत्वं निर्विचिकित्सज्ञानानुदयप्रसंगादिति चेत् । ब्रह्मण
इति न कर्मणि षष्ठी किंतु शेषषष्टी । तथा च ब्रह्मसंबन्धि तज्ज्ञानोपयोगि १० सर्वमेव प्रतिज्ञातं वदितव्यम् । न च गौणतापत्तिरजिज्ञास्यत्वं च स्यादिति वाच्यम् । ब्रह्ममात्रे संदेहाभावात् । संदिग्धस्यैव जिज्ञास्यता। गौणत्वं तु शब्दत एव । न त्वर्थतः । वेदप्रामाण्यं तु पतितन्त्रसिद्धत्वान्न विचार्यते । तस्माद्ब्रह्म जिज्ञासितव्यमिति सिद्धम् ॥ १।१।१ ॥
२ जन्मायधिकरणम् । १५ किंच तत्र किलक्षणं किंप्रमाणकमिति जिज्ञासायामाह सूत्रकारः।
जन्माद्यस्य यतः शास्त्रयोनित्वात् ॥ ११॥२॥ इति । ननु कथमत्र संदेहः । यावता-सत्यं ज्ञानमनन्तं ब्रह्म (ते. २-१) इत्याह · श्रुतिरव। विरुद्धं चैतत् । स्वरूपलक्षणाकथने कार्यलक्षणस्य वक्तुमशक्यत्वात् । विवादाध्यासितत्वाच्च । नहि ब्रह्मणो जगत्कर्तृत्व सर्वसंमतम् । न चागमोदितमिति वेदमात्रस्य ब्रह्मप्रमाणकत्वं वक्तुं शक्यते । किंच । व्यर्थश्चैवं विचारः । लक्षणप्रमाणाभ्यां हि वस्तुज्ञानं भवति। तच्च स्वरूपलक्षणेनैव भवनीति किमनेन । तस्मादयुक्तमुत्पश्याम इति॥ उच्यते ।
संदेहवारक शास्त्रं वेदप्रामाण्यवादिनाम् ।
क्रियाशक्तिज्ञानशक्ती संदिह्यते परस्थिते ॥६॥ २५