________________
१ जिज्ञासाधिकरणम्। [अ. १ पा. १ सू. १ तत्राद्यस्य वाचिको द्वितीयतृतीययो: कायिकश्चतुर्थस्य मानसिक इत्याश्रमिणाम् । तस्मादकेनैव चरितार्थत्वात् किं द्वितीयेनेति प्राप्ते ।
उच्यते। उपासनाया धर्मत्वपि न ब्रह्मणो धर्मत्वम् । ज्ञानरूपत्वात्। धर्मस्य च क्रियारूपत्वात् । न चार्थवादानां धर्म इव ब्रह्मण्युपयोगः कर्तुं शक्यः । ५ उत्पत्तिप्रकरि फलभदानामभावात् । प्रकृते तु माहात्म्यज्ञानार्थं तदुपयोगः। तस्य च ज्ञानोपयोगो यथा तथा वक्ष्यते चतुर्थे । उपासनादर्शनादिपदानां मनोव्यापारत्वमेव । विचारस्यापि यथा ज्ञानोपयोगित्वं तथा वक्ष्यत। किंच । औपनिषदज्ञानस्यापि कर्मोपयोगित्वं-यदेव विद्यया
करोति श्रद्धयोपनिषदा वा तदेव वीर्यवत्तरं भवति ( छां. १-१-१० ) १. इति । अत एव ब्रह्मविदामेव जनकादीनां कर्मणि सर्वदेवसांनिध्यम् ।
अन्यथाभासत्वमेव । न च ब्रह्मरूपात्मविज्ञान दहाद्यध्यासाभावेन कर्तृत्वाभावात् कर्मानधिकार इति वाच्यम् । निरध्यस्तैरेव देहादिभिः कर्मकरणसंभवात् । अत एव जीवन्मुक्तानां सर्वे व्यापारा: । तथा च स्मृतिः।
नव किंचित करोमीति युक्ता मन्यत तत्त्ववित् । पश्यत्र शृण्वन् स्पृशत्र जिघनश्नन् गच्छन् स्वपञ श्वसन् ॥ पलपन् विसृजन् गृह्णन्नुन्मिपन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ब्रह्मण्याच्याय कर्माणि संगं त्यक्त्वा करोति यः । लिप्यते न स पापन पद्मपत्रमिवाम्भसा ।।
(भ. गी. १०-८-१० ) इति अतो ब्रह्मविदामेव कृतं कर्म शुभफलं भवति । अतो धर्मविचारकाणामपि ब्रह्म जिज्ञास्यमेव । तस्मान्न गतार्थत्वानुपयोगी ।
ननु फलप्रेप्सुरधिकारी । फलं च विचारस्य शाब्दज्ञानम् । तस्य मननादिद्वारानभवः । तम्य चाननिवृत्तिपर्वकपरमानन्दावापिः । तथा ...च विरक्तानर्थजिहासुः परंप्रेप्सश्चाधिकारी कस्मान्न भवति ।
-बि reads वक्ष्यते । चतुर्थ उपासना । tor वक्ष्यते चतुर्थे । उपासना 8-1B reads तथा for तथा ।