________________
अ. १ पा. १ सू. १ ]
अणुभाष्यम् ।
र्थत्वात् - अयं हि परमो धर्मों यद्योगेनात्मदर्शनम् ( या स्मृ. १-८ ) इति स्मृतेश्व | सृष्ट्यादिवाक्यानां त्वर्थवादत्वम् । आरोपापवादविषयधर्मप्रतिपादकत्वेन विधेयोपासनाविषयस्तावकत्वात् । न च ज्ञानादीनामविधेयत्वं प्रमाणवस्तुपरतन्त्रत्वनाकृतिसाध्यत्वादिति वाच्यम् । न हि सर्वात्मना साध्यं ५ प्रकारभेदस्त्वप्रयोजकः । सर्वस्यापि कारणेषु पुरुषव्यापृतिः । तदत्र वृत्तिसंपादने प्रमाणसंपादने वा पुरुषकृतिसाध्यत्वम् । अन्यथा सिद्धान्तंपि मननादिशास्त्र वैफल्यापत्तेः । साधनप्रतिपादकश्रुतिविरोधश्व । येनापि सर्वक्रियाफलत्वं निराकार्य तेनापि गुरूपसच्यादिना यतितव्यमेव ज्ञानार्थे । तस्माद्यत्रापि विध्यश्रवणं तत्रापि विधिं परिकल्प्य तत्रत्यानां तच्छेषत्वं कल्प्यमिति नार्थोनया मीमांसया । अन्यथा विरोधोपि ।
१०
स्यादेतत् । ब्रह्मविचार एवारम्भणीयो न धर्मविचारः । सर्ववेदव्यासकर्त्रा वेदव्यासेनाकृतत्वात् तुच्छफलत्वाच्च । कल्पोक्तप्रकारेण निःसंदिग्धं करणसंभवाच्च । आचारपरंपरापि करणसंभवाच्च । एतह्येपि संदेह सूत्रभाष्ययाज्ञिकानामेवानुवृत्तिः क्रियते न मीमांसकस्य १५ तस्मात् साङ्गवेदाध्यतुर्निः संदहकरण संभवान्न पूर्वयापि कृत्यम् । किंच | परमकृपालुर्वेदः संसारिणः संसारान्मोचयितुं कर्माणि चित्तशुध्यर्थं बोधितवानिति कंपन्धपातनवदप्रामाणिकत्वभियावसीयते । विपरीतबोधिका तु पूर्वमीमांसा तस्मादपि न कर्तव्येति ।
मैवम् । किं विचारमात्रमेव न कर्तव्यं पूर्वकाण्डविचारों वा । नायः । २० तुल्यवात् समर्थितत्वाच्च । द्वितीये सामान्यन्यायेन संदेह निवार्ये लक्षणवत् तदुपयोगः। अनिष्टतया निरूपणं न भीमांसादोषः । किंतु विचारकाणां स्वभावभेदात् । किंच आवश्यकत्वादपि । निवृत्तानामपि यागादिज्ञानस्यावश्यकत्वं चित्तशुध्यर्थत्वात् । परमाश्रमभेदेन प्रकारभेदः कायिकादिभेदात् ।
- A reads कारणे for कारणेषु ।
19- M reads विचारमात्रं for विचारमात्रमेव । 22- ग reads यागादिक for यागादि ।