________________
१ जिज्ञासाधिकरणम् । अ. १ पा. १ सू.५ करापत्तिश्च । मनसा तज्जननपि तथा । तस्मात्प्रथमं शाब्दमव ज्ञानमिति मन्तव्यमनुभवसिद्धत्वात् । इदानींतनानामपि शमादिरहितानां निर्विचिकित्सितवेदार्थज्ञानोपलब्धेः । संन्यासानुपपत्तिश्च । किंच अध्याहारश्च कर्तव्यः स च कर्तव्यादिपदानाम् । यदि तत्स्वार्थं व्यर्थमेव वाक्यं स्यात् । परार्थत्वं ५ त्वशक्यम्। न हि तैर्विचारः कर्तुं शक्यते । स्वकृतिवैयर्थं च । असंगतिश्वास्य सूत्रस्य भवेत् । किंच । अधिकारपक्षे पुरुषार्थः सिध्यति नानन्तर्यपक्षे। उक्तन्यायात् । किंच । तादृशस्याधिकारिणः श्रवणमात्रेण कृतार्थस्य समाधिनिरतस्य प्रवचनासंभवात् शास्त्राच्छदः । शास्त्रविरोधश्च । साधना
नामग्रे स्वयमेव वक्तव्यत्वात् । अतोनेकदोषदुष्टत्वादधिकारार्थ एव श्रेयान् । १० नच ज्ञातमिच्छा जिज्ञासा नाधिकर्तुं शक्येति वाच्यम् । जिज्ञासाप
दस्य विचारार्थत्वात् । अत एव जिज्ञासितुमिच्छेदिति पुराविदां वचनानि । जिज्ञासापदेन चैतजज्ञापयति। ब्रह्मज्ञानं पुरुषार्थसाधनत्वादिष्टम् । तदिच्छापूरणाय विचार आरभ्यत इति । यस्मात् कर्मादिभ्यो ज्ञानमेव
पुरुषार्थसाधनमित्यतस्तज्ज्ञानाय विचारोधिक्रियत इत्यत: शब्दार्थः । १५ अधिकारी तु त्रैवर्णिक एव । न हि वेदविचारस्य वेदाधिकार्यतिरिक्तः
शक्यते कल्पयितुम्। न हि मन्दमतेर्वेदो नायातीति त्रैवर्णिके मतिमत्त्वमधिकारिविशेषणं कल्प्यते । अन्धपग्वादीनामिव कर्मणि । गृहाद्यासक्तस्य मननाद्यसंभवात् साक्षात्कारो न भविष्यति ॥ न च धर्मन्यायन गतार्थत्वमस्य । अप्रतिज्ञानादनुपलब्धेश्च । न च जगत्कारणं परमात्मा वा प्रकृति २. परमाणवो वेति संदेहे किंचिदधिकरणमस्ति ।
__ स्यादेतत् । अथातो धर्मजिज्ञासा (जै. स. १-१-९) इति धर्मविचारं प्रतिज्ञाय नादकवाक्यार्थस्य धर्मत्वमुक्ता प्रामाण्यपुर :सरं सर्वे संदहा निवारिताः । तत्र ब्रह्मज्ञानस्यापि धर्मत्वम् । आमत्यवापासी। (बृ. १-४-७) आत्मानं श्लोकमुपासीत (बु. १-४-१.) तद्ब्रह्मन्युपासीत २.. (ते. ३-१०-४) आत्मा वार द्रष्टव्यः (बृ. २-४-५) इत्यादिनादनावाक्या
2-A reads निर्बिचिकित्स for निर्विचिकित्सित । 19-वि.read: अस्याः for अस्य ।