________________
अ. १ पा. १ सू. १ ]
अणुभाष्यम् ।
यथा
किमत्र युक्तम् । व्याख्यानमिति । व्याख्यानतो विशेषप्रतिपत्तेः कर्मणि दर्शपूर्णमासौं तु पूर्वं व्याख्यास्यामः । अथातो दर्शपूर्णमासौ व्याख्यास्यामः ( आ. श्रौ.सू. १-१ ) इति ।
अथवैतहमानि सिध्यन्ति प्रयोजनानि । अधिकाकाङ्क्षा न भवे५ व्याहारश्व | पुरुषार्थश्व सिध्येत् । उच्छेदश्व न भवेदिति । कथम् । अथशब्दार्थचतुष्टये वर्तते । मङ्गले । अधिकारे । आनन्तर्ये । अर्थान्तरोपक्रम च । तत्र श्रुतिमात्रेणैव मङ्गलसिद्धेरर्थान्तरस्य च पूर्वोक्तस्याभावान्नात्र तत्कल्पनम् । अथावशिष्यत आनन्तर्ये चाधिकारे वेति । आनन्तर्ये त्वध्ययनस्य स्वतःसिद्धत्वाधिकाकाङ्क्षा भवति । तथा सति तदभावान्न विचार: सिध्येत् । तथाहि न तावद्धर्मविचारानन्तर्यं विपर्ययसम्भवात् । न च पाठतो नियमः । तत्रापि तथा । न चाचाराद्व्यवस्था । तत्राप्यनियमसंभवात् । प्रत्यवायाश्रवणात् । संभवेपि न वक्तव्यत्वमध्ययनवत् । तथा च ततोप्याकाङ्क्षा भवेत् । न च वैराग्यशमदमादिः पूर्वसिद्धः । तेषामेवाभावात् । न च यदैव संभवस्तदैव तत्कर्तव्यमिति वाच्यम् । तदसंभवापत्तेः । १५ तथाहि ब्रह्मणः परमपुरुषार्थत्वे ज्ञांते तज्ज्ञानस्यैव साधनत्वेवगते तच्छेषत्वे च यागादीनामवगतं तदर्थकर्मकरणे चित्तशुद्धौ सत्यां वैराग्यादि । इदं च वेदान्तविचारव्यतिरेकेण न भवतीत्यन्योन्याश्रयः ।
१०
निर्धारिते तु वेदान्ते विचारो व्यर्थ एव । न च साक्षात्कारस्तत्फलम् । तस्य शब्दशेषत्वेन तत्कल्पनायां प्रमाणाभावात् । दशमस्त्वमसत्यादौ २० प्रत्यक्षसामग्रचा बलवत्त्वाद्देहादेः प्रत्यक्षत्वात् । स्वदेहमपि पश्यन् दशमोहमिति मन्यते । न तथा प्रकृते । मनननिदिध्यासनविधीनामानर्थक्यप्रसङ्गात् ।
न चाधिकारिभेदः कल्पनीयः । शब्दज्ञान तत्कल्पनायां प्रमाणाभावात् । अत्यन्तासत्येप्यर्थे शब्दस्य ज्ञानजननात् । प्रमाणसं
S-B reads वाधिकारे for चाधिकार । A reads चेति for वेति । 9- Bom. सति ।
18- reads फलम for तत्फलम् |