________________
१ जिज्ञासाधिकरणम् । [अ. १ पा.१ सू.५ णीय एव ब्रह्मविचारः । अनेन धर्मविचारोप्याक्षिप्त एव । न ह्येतान्निराकर्तुः सोयमतिभार इति पूर्वः पक्षः ॥
सिद्धान्तस्तु । संदेहवारकं शास्त्रं बुद्धिदोपात्तदुद्भवः । विरुद्धशास्त्रसंभेदादङ्गैश्वाशक्यनिश्चयः॥३॥ तस्मात् सूत्रानुसारेण कर्नव्यः सर्वनिर्णयः।
अन्यथा भ्रश्यते स्वार्थान्मध्यमश्च तथादिमः ॥ ४॥ परम्परया पाठयदर्थस्यापि गुरुमुखादेव श्रवणपि मन्दमध्यमयोः संदेहा
भवेत् समानधर्मदर्शनात पदादिपाठवत् । तत्र यथा लक्षणानामुपयोग १० एवमेव मीमांसाया अपि । तदुक्तम् ।
असंदिग्धपि वेदार्थे स्थूणाखननवन्मतः ।
मीमांसानिर्णयः प्राज्ञे दुर्बुद्धेस्तु ततो द्वयम् ॥ ५ ॥ इति । तथा च निर्णये यन केनचिद्वक्तव्य हरिः स्वयं व्यासो विचारं चिकीर्षुस्तत्कर्तव्यतां बोधयति ब्रह्मजिज्ञासा कर्तव्येति । व्यासक्तित्वादपि १५ कर्तव्यता।
कर्तव्यपदाध्याहारे स्वातन्त्र्यं न भवति । अन्यथा-अथ योगानुशासनम् ( या. सू. १-१ ) इतिवत् स्वतन्त्रता स्यात् । तथा च ज्ञानानुपयोगः । तथाहि-तं त्यौपनिषदं पुरुषं पृच्छामि ( बृ. ३-९-२६) इति
केवलोपनिषद्वेद्यं ब्रह्म न शास्त्रान्तवेद्यं तद्यदि मीमांसा स्वतन्त्रा स्यात २० तज्जनितं ज्ञानं न ब्रह्मज्ञानं भवेत् ।
अथवा अध्याहार करणापेक्षयाथशब्द एवाधिकारे व्याख्येयः । वेदाध्ययनानन्तर्य त सिद्धर्भव। न ह्यनधीत एव विचारमहति । तत्रैतत स्यात् । स्वतन्त्रतति । तत्र प्रतिनिधास्थामः । वदार्थब्रह्मणो बदानकुलविचार इति ।
7-ग rends तदादिमः for तथादिमः । 22-ग reads वेदाध्ययनानन्तर्वे for वेदाध्ययनानन्तर्य ।
read ह्यनधीतवेद for ह्यनधीत ।
ग and M.