________________
अ. १ पा. १ सू. १] अणुभाग्यम् । तिरिक्तस्य ब्रह्मणोभावान्न वेदमात्रादसंभावनाविपरीतभावनानिवर्तकं ज्ञानमुत्पद्यते प्रत्युत देहात्मभावदृढप्रतीतेः श्रुतेरुपचरितार्थत्वं स्तुतित्वं वा कल्पयिष्यतीति ॥ मैवम् ।
अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । ५ तपसा वेदयुक्त्या तु प्रसादात्परमात्मनः ॥ २ ॥
न हि स्वबुध्द्या वेदार्थं परिकल्प्य तदर्थं विचारः कर्तुं शक्यः । ब्रह्म पुनर्यादृशं वेदान्तेष्ववगतं तादृशमेव मन्तव्यम् । अणुमात्रान्यथाकल्पनेपि दोषः स्यात् ।
योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यत । किं तेन न कृतं पापं चोरणात्मापहारिणा ॥
नैषा तर्केण मतिरापनेया ( कट. १-२-९) इति श्रुतश्च । न च विरुद्धवाक्यानां श्रवणात्तन्निर्धारार्थं विचारः। उभयारपि प्रामाणिकत्वनैकतरनिर्धारस्याशक्यत्वात् । अचिन्त्यानन्तशक्तिमति सर्वभवनसमर्थे ब्रह्माणि विरोधाभावाच्च । अत एवोपनिषत्स तत्तदपाख्यान जोधाभाव औपाधिकाय च तपस एवोपदेशः। न च तप:शदन विचारः। तस्य पवानाधिक्यातप एवान चापारध्यानानां मिथ्यात्वम् । तथा सति सर्वत्रैव मिथ्यात्वं भवेद्विशेषाभावात् । न ह्यप्रामाणिकात विधा वापाख्यान वा ब्रह्मस्वरूप वा कस्यचिदपि विश्वासो यथा लोके । तस्माद्वंदेक्षरमात्रस्याप्यसत्यार्थज्ञानस्या
भावाद्वैदिकानां न सन्देहोपि किं पुनर्विरुद्धार्थकल्पना । विद्यासु च तदश्रुतेः । २. यदि वेदार्थज्ञाने विचारस्योपयोगः स्यादङ्गत्वेन ब्याकरणस्येव विद्यासु श्रवणं
स्यात् । स्वातन्त्र्ये च पुराणादेरिव मीमांसाया अपि प्रकारभेदेन प्रतिपादकत्वं स्यात् । तं त्वौपनिषदं पुरुषं पृच्छामि ( बृ. ३-९-२६ ) इति तु तेषां निषेधः । अन्यथाज्ञानं नोपनिषदुक्तं फलं समर्पयति। तस्मान्नारम्भ
१५
-A (ads युक्त्या नु for युक्त्या
तु ।