________________
१०
१५
॥ श्रीकृष्णाय नमः ॥
अणुभाष्यम् ।
0000
श्रीमते वल्लभाचार्याय नमः ।
www
Am
१ जिज्ञासाधिकरणम् । अथातो ब्रह्मजिज्ञासा ॥१॥१॥१॥
इदमत्र विचार्यते । वेदान्तानां विचार आरम्भणीयो न वेति । किं तावत् प्राप्तम् । नारम्भणीय इति । कुतः ।
साङ्गोध्येयस्तथा ज्ञेयो वेद: शब्दाच बोधकाः । निःसंदिग्धं तदर्थाश्च लोकवट्र्याकृतेः स्फुटाः ॥ १ ॥
अर्थज्ञानार्थं विचार आरम्भणीयः । तस्य च ब्रह्मरूपत्वात् तज्ज्ञाने पुरुषार्थों भवतीति न मन्तव्यम् । विचारं विनापि वेदादेव साङ्गादर्थप्रतीते: : । न चार्थज्ञानमविहितम् अविचारिताश्व शब्दा नार्थं प्रत्यायन्तीति वाच्यम् । ज्ञेयश्वेति विधानात् ।
गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोल्पकण्ठश्च षंडते पाठकाधमाः || १ ||
( पा. शि. ३२ ) इति । बाधोपलब्धिश्व । शब्दश्चक्षुरादिवन्न संदिग्धार्थप्रतिपादकः । तदर्थव व्याकरणादिना निश्चीयते । यथा लौकिकवाक्ये तथा वेदेपि । न च तद्विरुद्धं निर्णेतव्यम् । अप्रामाणिकत्वप्रसङ्गात् । तस्माद्वेदार्थज्ञानार्थं विचारो नारम्भणीयः ।
स्यादेतत् । न वेदार्थज्ञानमात्राय विचार: किंतु ब्रह्मज्ञानाय । तस्य चात्मरूपत्वात् तस्य चाविद्यावच्छिन्नत्वाद् देहात्मभावदृढप्रतीतेस्तद्
- A reads शब्दश्व बोधक: for शब्दाच बांधकाः ।
१ [ अणुभाष्य ]