________________
अणुभाष्यम् ।
६६
सूत्राङ्काः
पृष्ठाङ्काः ।
१४ ब्रह्मिष्ठस्य स्तुत्यर्थं तस्यार्त्विज्येनुमतिः क्रियते न तु तस्याधि - २७५
कारित्वमभिप्रेतम् ।
१५ परानुग्रहार्थमिच्छया यत्कर्मकरणं ततः प्राप्तयोर्गुणदोषयो- २७५ निवारणार्थमेष नित्य इति वाक्यमेके शाखिनः पठन्ति । न त्वेतावता कर्म कर्तव्यमेवेति नियमः ।
१६ तत्कं केनेत्यादौ ब्रह्मज्ञाने कर्मतदधिकारादीनामुपमर्दः पठितः । २७६ १७ यदहरेवेति श्रुत्या संन्यासविधानात्संन्यासिषु कर्माभावोड़ी- २७६ कार्यः । एवं च कर्माङ्गत्वं ज्ञानस्य न । ज्ञानस्वरूपस्य श्रुत्येकसमधिगम्यत्वात्संन्यासाश्रमकर्मशेषत्वमपि ज्ञानस्य न ।
१८ पूर्वपक्ष: । किं प्रजयेति श्रुत्या मोक्ष एव परमफलत्वेन २७७ परामृश्यते । तं परामर्शं जैमिनिर्ज्ञानस्याविधेयत्वात्तदविधिरपि च बाधेते । अतो जैमिनिसंमत्या विधिबलाच्च कर्मैवानष्ठेयम् ।
1
१९ उत्तरपक्षः । बादरायणोनुष्ठेयं कर्मापवदति । कर्मविधित्यागयोः २७८ श्रुत्युक्तत्वसाम्यात् ।
२० यथा योगशास्त्रे समाधिसिद्ध्यर्थं मानसमूर्तेर्धारणं साधनत्वेन २०० विधीयत एवं भक्तिसाधनत्वेनैव कर्मानुष्ठेयमिति विधीयते । तेन न पूर्वकाण्डस्य वैयर्थ्यम् ।
२१ ज्ञानिनोपि कर्मकृतिस्वीकारादेष नित्य इति श्रुतिर्ज्ञानस्य २८२ स्तुतिमात्रमिति चेन्न ज्ञानिनः कर्मफलासंबन्धस्यापूर्वत्वात् । एवं च प्राप्यभावाद्विधेयत्वमेव ।
२२ ननु ब्रह्मविद्यानिरूपकाणामुपाख्यानानां कर्माशंसनशेष- २८३ त्वात्कर्मप्राधान्यमिति चेन्न ज्ञानस्य कर्मापेक्षया विशिष्टत्वकथनात् ।
२३ यथा केवलश्रुतीनां विद्याप्रतिपादकत्वं तथाचार्यवानिति २८४ श्रुत्यैकवाक्यताज्ञानार्थमुपाख्यानरीत्या गुरुशिष्यकथोपबन्धादाख्यानश्रुतीनामपि विद्याप्रतिपादकत्वम् ।