________________
प्रतिसूत्रं श्रीमवणुभान्यतात्पर्यम् । सूत्राङ्काः
पृष्ठाङ्काः। २४ यतो ज्ञानी ज्ञानेन स्वयं यज्ञात्मको जातोतो जरामर्याग्नि- २८५ होत्रेमीन्धनाद्यनपेक्षोक्ता ॥
२ सर्वापेक्षेत्यधिकरणम् । २५ पुरुषोत्तमज्ञाने कर्मज्ञानभक्त्याख्यसर्वसाधनानामपेक्षा। यज्ञा- २८५
दिविधायकश्रुतेः । अत्र व्यवस्थापको दृष्टान्तः। अश्ववदिति । यथा दूरदेशस्थेष्टफलप्रतिबन्धकदेशातिक्रमेश्वस्य साधकत्वं नतु तद्देशस्थफलप्राप्तावपि । तथा कर्मणां ज्ञानप्रतिबन्धकान्तः
करणदोषनिरास उपयोगो नतु ज्ञानफलसिद्धावपीत्यर्थः । २६ भक्तिमार्गेपि शमदमायुपेतः स्याद्यद्यपि तथापि ज्ञानाङ्गतयैव २८७
शमादिविधानाज्ज्ञानमार्गे तेषामवश्यानुष्ठेयत्वात्तथाविधिः ।
भक्तिमार्गे तु स्वत एव संभवान्न तेषां विधिः। २७ आहारदौर्लभ्येन प्राणात्यये प्राप्ते सर्वान्नानुमतिः श्रूयते । २८७
चाक्रायणप्रकरणे तथा दर्शनात् । २८ आपदि सर्वान्नभक्षणेन चित्तदोषासंभवाज्ज्ञानबाधो न । २८८ २९ जीवितात्ययमापन्न इत्यादिनापदि दुष्टान्नभक्षणेविदुषोपि पापं २८८
नास्तीति स्मर्यते । ३० ज्ञानित्वे सकलपापदाहाद्यथेष्टाचरणेपि न दोषः । परं साध- २८८ नदशायां दोषः । श्रुत्युक्तेः ॥
३ विहितत्वात्कर्मेत्यधिकरणम् । ३१ विहितत्वाद्यथा शिष्टान्नभक्षणं तथाश्रमकर्माप्यनुष्ठेयम् । २८९ ३२ आश्रमकर्माणि ज्ञानान्तरङ्गशमदमादिसहकारीण्यतः कर्त- २८९
व्यानि । ३३ यदा वर्णाश्रमकर्माणि श्रवणादीनि च युगपत्प्राप्नुयुस्तदा २८९
भक्तेन श्रवणादीन्येव विधेयानि । श्रुतिस्मृतिप्रामाण्यात् । ३४ यतः श्रुतिः कर्माननुष्ठानजदोषैर्भक्तस्यानभिभवं दर्शयति । २९०