________________
६५
प्रतिसूत्रं श्रीमदणुभाभ्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः ।
२ यथा द्रव्यगुणकर्मस्वर्थवादः । तथात्मनिरूपणं वेदान्तगतं २६९ यज्ञाङ्पुरुसंबन्ध्यर्थवाद्गतमिति जैमिनिमतम् ।
३ वसिष्ठादिब्रह्मज्ञानिनामग्निहोत्राद्याचारदर्शनाज्ज्ञानेन कर्मणो २६९
बाधो न ।
४ जनको ह वैदेह इत्यादिश्रुतेर्ब्रह्मविदा जनकेन यज्ञकरणा- २७० ज्ज्ञानेन न कर्मणो बाधः ।
५ तं विद्याकर्मणी इति श्रुतौ ज्ञानकर्मणोः साहित्येन फलारम्भ - २७० कत्वदर्शनान्न ज्ञानेन कर्मणो बाधः ।
६ ब्रह्मष्ठो ब्रह्मेत्यनेन ज्ञानवतो ब्रह्मत्वेन वरणकथनाज्ज्ञानं २७० कर्माधिकार संपादकमेव ।
७ यावज्जीवमग्निहोत्रनियमात्कर्माकरणे प्रायश्चित्तविधानाच २७० कर्म श्रुत्यभिमतम् ।
८ स वा अयमिति श्रुत्या भगवत: सर्वाधिक्येन कथनात् २७१ जैमिनिमतं न योग्यम् । एवं बादरायणेन कर्मादिभ्य आधिक्येनैव भगवतो भक्तिमार्गस्य तत्संबन्धिसर्वात्मभावस्य चानुभवस्य गृहीतत्वात् ।
९ यथा जनकादीनां कर्मकरणं तथा शुकादीनां कर्मत्यागो २७२ दृश्यते। एवं चाचारस्य तुल्यत्वान्न ज्ञानं कर्माङ्गम् ।
१० सर्वैर्ब्रह्मविद्भिः कर्म क्रियते इति तु श्रुतौ न निरूप्यते । तेन २७३ त्यागपक्षः श्रेयान् ।
११ अधिकारवशाज्जनकेन कर्म न त्यज्यते शुकेन तु त्यज्यते । २७३ अयं च त्यागात्यागो भगवदनुग्रहकृत एव । यथाधिकारता - रतम्येन तैत्तिरीयश्रुतौ शतगुणिता आनन्दा उक्ताः ।
२७३
१२ वेदाध्ययनमात्रवतः कर्मण्यधिकारो नतु ब्रह्मविदोपि । १३ न कर्मणेति श्रुतौ मोक्षप्राप्तौ कर्मत्यागनियमदर्शनान्न कर्म - २७४
नियमो बाधकः ।