________________
अणुभाष्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः ।
४६ नामैवैतदित्युगादिविद्या अनूद्य नामब्रह्मातिदेशादपि ज्ञान - २५३
प्रकारविशेष एवायम् ।
४७ सिद्धान्तः। अत्र सर्वात्मभाव एव निरूप्यते । भूमा त्वेवे- २५३ त्यानन्दात्मकपुरुषोत्तमस्यैव जिज्ञास्यत्वेन निर्धारणात् ।
४८ सर्वात्मभाववतां व्रजभक्तानां पूर्वमितरविस्मृतिर्भगवत्सामर्थ्या- २५५ दग्रे सर्वसामर्थ्यं च ।
४९ तरति शोकमित्युपक्रमवाक्यानुरोधात् सर्वात्मभावलिङ्गम् - २५६ यस्त्वस्य न बाधः । वाक्यांपेक्षया श्रुतिलिङ्गयोर्बलीयस्त्वात् । ५० समाधिकरण सर्वात्मभावादिभ्यो हेतुभ्यः सर्वात्मभाव एवं स्वं २५६ महिन इत्यादिना प्रतिपाद्यो न ब्रह्मणः स्वाधारत्वम् । ननु सर्वात्मभावेनापि मुक्तिरेव साध्येति चेन्न यतो यथा सर्वात्मभाववद्भक्त प्रज्ञातोन्या विलक्षणा मुमुक्षुप्रज्ञा भगवद्विषयिणी बुद्धिः सा प्रज्ञान्तरं तद्यथा कर्मज्ञानादिफलेभ्यः पृथक्त्वेन मोक्षसाधकं तथा सर्वात्मभाववद्भक्तप्रज्ञाया भगवल्लीला साधकत्वमतो न सर्वात्मभावस्य मोक्षेन्तर्भावः । दृष्टश्व व्रजभक्ते स्वरूपानुभव एव फलम् । तच्च वशे कुर्वन्तीति भगवतांक्तम् ।
1
५१ ननु सर्वेषु लोकेषु कामचार इत्यादिना भक्तस्यान्यकामनापि २५८ दृश्यत इति चेन्न । तत्समानधर्म संबन्धादपि श्रुतौ तत्प्रयोगस्य बहुश उपलम्भात् । यथा न पश्यो मृत्युमितिसर्वात्मभाववतो मृत्यु निषेधः क्रियते तथा भगवत्स्वरूपातिरिलोकान्तर संबन्धोपि तस्य न संभवति ।
५२ आत्मन एवेदमिति वाक्यस्य सर्वमाप्नोतीति परवा+येनैकरूप- २५९ त्वमस्तीति न लोकान्तरसंबन्धो वक्तुं शक्यः । नन्वात्मन एवेदं सर्वमित्युक्त्वा पुनः सर्वमाप्नोतीति किमर्थमिति चेन्न हेतुचाहुल्ये सति दाढर्थात् ।