________________
प्रतिसूत्रं श्रीमदणुभाग्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः ५३ अत एवैके शाखिनो भगवतो भक्तशरीर आविर्भावात्तेन सह २५९ कामोपभोगरूपिकां सोश्नुते सर्वानिति श्रुतिं पठन्ति ॥
१८ व्यतिरेकाधिकरणम् । ५४ ज्ञानिनां हृदये परमव्योमाविर्भावो न भवति । वरणाभावेन २६०
भगवद्भावस्याभावात् । यथा ज्ञानं साधनेन साध्यं तथा वरणं
साधनेन साधयितुमशक्यम् । ५५ यथा यजमानेन हौत्राद्यर्थं वृता ऋत्विजः सर्वशाखीयकर्मा- २६२
नुष्ठानसमर्था अपि वरणानुसारं तत्तच्छाखीयमेव कर्म कुर्वन्ति तथात्र भगवता वरणाभावाज्ज्ञानिनां हृदि परमव्योमावि
वो न। ५६ शास्त्रविध्यनुसारं यथैक एव मन्त्रो बहुषु कर्मसु नियुज्यते २६२
कश्चिद् द्वयोः कश्चित्त्वेकत्रैव तथा भगवदिच्छया जीवोपि कश्चित्कर्मनिष्ठाप्राप्त्यनन्तरं वरणेन भक्तिनिष्ठां प्राप्नोति कश्चित्तु ज्ञाननिष्ठामेव प्राप्य भक्तिनिष्ठां प्राप्नोति कश्चित्तु प्रथमत एव भक्तौ वियत इति न विरोधः ॥
१९ भन्न इत्यधिकरणम् । ५७ सर्वात्मभावस्य सर्वोत्कृष्टत्वं ज्ञेयम् । किंच यथा दर्शपौर्ण- २६३
मासादिषु दोहनादिकर्मणां लौकिककर्मतुल्यत्वेपि लौकिकत्वं न । तद्वत्सर्वात्मभावस्यापि न लौकिकत्वम् । आत्मनः प्राणा इत्यादिश्रुतिः सर्वात्मभाववतो भक्तस्य सर्वं भगवत एवेति दर्शयति ।
२० नाना शब्दादिभेदादित्यधिकरणम् । ५८ सर्वावतारेषु पृथगेवोपासना विधेया। तत्तत्स्वरूपसंबन्धिनां २६५
मन्त्राणामाकाराणां चरित्राणां च भेदात् ॥