________________
प्रतिसूत्रं श्रीमदणुभाव्यतात्पर्यम् ।
सूत्राङ्काः ।
पृशङ्काः। १४ आदरादलोप इत्यधिकरणम् । ४० वर्णाश्रमधर्माणां भगवद्धर्माणां च युगपत्मसक्तौ भगवद्धर्मे- २१७
प्वादरश्रवणात्त एवानुष्ठेया नतु वर्णाश्रमकर्मभिस्तल्लोपः
संपादनीयः। ४१ भगवद्धर्मवर्णाश्रमधर्माणां युगपत्करणे भगवद्धर्माणां बलवत्त्वे- २४८ नालोपवचनाद्भगवद्धर्माः कर्माङ्गं न किंतु मुख्याः ॥
१५ तन्निर्धारणाधिकरणम् । ४२ कर्म कर्तव्यं न वेति भगवदिच्छाया अज्ञातत्वेनाधुनातनैः २४८
कर्म निष्कामतया कर्तव्यमेव । भगवदिच्छां ये जानन्त्यम्बरीषयुधिष्ठिरादयस्तेषां जीवकृतकर्मफलाद्भिन्नमीश्वरकृतकर्मफलं लोकसंग्रहादिकं नतु स्वर्गरूपम् । निष्कामकर्मकारिणां तु कर्मजप्रतिबन्धाभावः फलम् ॥
१६ प्रदानवदित्यधिकरणम् । ४३ भगवतोद्धवं प्रति यः सर्वात्मभावत्वेनोपदेशः कृतः स वरदान- २४९ वदेव । नायमात्मेति श्रुतेः ॥
१७ लिङ्गभूयस्त्वाधिकरणम् । ४४ सर्वात्मभावस्य सर्वाधिकत्वात्तदेव कालकर्मादिभ्यो बलीयः। २५१
तस्य ज्ञानेनापि प्रतिबन्धो नेति-अन्तरा भूतग्रामवदिति
सूत्रेणोक्तम् । ४५ सूत्रद्वयेन पूर्वपक्षः । छान्दोग्ये वरणभूयस्त्वं नोच्यते किंतु २५२
श्वेतकेतूपाख्यानज्ञानस्यैव प्रकारभेदो निरूप्यते । आत्मपकरणत्वादुभयोः प्रपाठकयोः । अत्र दृष्टान्तः । क्रियामानसवदिति । यथा बाह्या पूजा क्रियेत्युच्यते । आन्तरी मानसमित्युच्यते। . [अणुभाष्य ]