________________
अणुभाष्यम्।
सूत्राङ्काः
पृष्ठाङ्काः ८ प्रकाशादिवचेत्यधिकरणम् । २५ पूर्वपक्षः सूत्रद्वयेन । यथा सूर्यचन्द्रमण्यादिप्रकाशानां भिन्न- १९७
त्वेप्येकविधत्वमेवाङ्गीक्रियते न विशेषत्वं तद्वद् ब्रह्मणोप्यवैशेष्यमङ्गीकार्यम् । ननु साक्षात्कारानुरोधाद्ब्रह्मणि तावन्तो धर्मा अङ्गीक्रियन्तामिति चेन्न यतो भगवतः प्रकाशस्तपःप्रणिधानादिकर्मणि भवति। तत्र तु भक्तेच्छानुरोधात्प्रकटीभव
तीति स प्रकाशो न वस्तुनिर्णायकः। २६ अभ्यासादनन्तेन रूपेणाविर्भावः । नोकं वस्तु स्वतोनेकविधं १९८
भवति । तथा सति विग्रह एव भवेन स्वरूपम् । अतः श्रुतेः
प्रत्यक्षस्य वा निर्णायकत्वात्सर्वागोचरमेव ब्रह्म। २७ उत्तरपक्षः। शब्दैकगम्यस्य ब्रह्मणो निर्णयः शब्देनैव। यथैक १९८
एव सर्पः सरलः कुण्डलाकृतिश्च भवति तथा ब्रह्माप्यचिन्त्यशक्त्या निर्गुणमनन्तरूपं च भक्तेच्छया भवति । प्रमाणसिद्धविरुद्धधर्माश्रये भगवति न कापि श्रुतिर्लाक्षणिकी ।
९ प्रकाशाश्रयवद्वेत्यधिकरणम् । २८ यथा प्रकाशाश्रयाः सूर्यादयस्तेजःप्रकाशाद्भिन्नाः प्रकाशधर्म · १९९
कत्वादभिन्नाश्च तेजस्त्वात् । तथा ब्रह्मणोनन्तगुणैः पूर्णत्वं तेषामपि सच्चिदानन्दरूपत्वेनाभिन्नत्वाद्ब्रह्मणो निर्गुणत्वमि
त्युभयमुपपन्नम्। २९ अथवा अरूपवदेव हीत्यादिपञ्चसूत्र्या यः सिद्धान्तः कथित- १९९
स्तादृशं वा ब्रह्म प्रतिपत्तव्यम् । ३० एकमेवेत्युक्त्वा पुनरद्वितीयमिति द्वितीयं प्रतिषेधति ॥ २००
१० परमतः सेतून्मानेत्यधिकरणम् । ३१ पूर्वपक्षः। सेतुव्यपदेशात्परिमाणकथनादाधाराधेयसंबन्धनि- २००
रूपणादक्षिस्थितपुरुषयोः परस्परं धर्मातिदेशकथनाद्ब्रह्मणोप्यन्यदुत्कृष्टमस्ति ।