________________
॥ श्रीमद्विछलेश्वरकारिकाः॥
२९७
२९७
३०१ ३०१ ३०१ ३०१ ३०१
३०१
३०१
३०१
भक्तिमार्गप्रचारकहृदयो बादरायणः । मानं भागवतं तत्र तेनैवं ज्ञेयमुत्तमैः ॥ समन्वयेनाविरोधात् साधनैब्रह्मविद्यदि ॥ तस्याग्रिमव्यवस्था या साच तुर्ये विविच्यते ॥ जीवतो म्रियमाणस्थ गच्छतः सफलस्य च ॥ अतो ब्रह्मविदा कार्यमेवमेव न चान्यथा ॥ तामसी बुद्धिमाश्रित्य ये मूढाः सर्वविप्लवम् ।। वदन्ति शास्त्रनाशाय सद्भिः शोच्याश्च येनु तान् ॥ ब्रह्मविद्मनाभावः शतांशेनापि चेद्भवेत् ॥ शास्त्रमेतदृथा जातं सर्वमूत्रविनाशतः ॥ स्वाप्ययस्य च संपत्तेरत्र ब्रह्मगतिश्रुती ।। अन्यथा न श्रुतेरर्थः स्याचेव्यासो वदेन किम् ॥ तामसी बुद्धिमाश्रित्य या मुक्तिः कैश्चिदुच्यते ॥ सा सुषुप्तिश्रुतेरो मोहादेवान्यथा मतिः॥ अतो ब्रह्मविदः कार्य जीवतः पूर्वमुच्यते ॥ आवृत्तिः श्रवणादीनां नवकृत्वोपदेशतः ।। दर्शनार्थत्वतो लिङ्गादपि ब्रीह्यवघातवत् ॥ आवृत्तिः श्रवणादीनामात्मेति स्याद् दृढा मतिः॥ आपाततो दर्शनं तदभेदेनापि बोध्यते ॥ प्रतीकोपासनादीनां नैवंभावो हि जायते ॥ आलम्बनार्थ तत्रापि ब्रह्मदृष्टिविशिष्यते ॥ आदित्यादिनमदृष्टेरगन्त्वं न स्वतन्त्रता ॥
३०१
३०१ ३०१
३०१
३०१ ३०१ ३०१ ३०१