________________
अ. पा. ४ . ५१ ]
अणुभाष्यम् ।
९ एवं मुक्तिफलानियम इत्यधिकरणम् । एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ३|४|५१ ॥
ननु—तस्य तावदेव चिरं यावन्न विमोक्ष्येथ संपत्स्ये (छां. ६।१४ २ ) ५ इति श्रुतौ मुक्त्यनन्तरं ब्रह्मसंपत्तिः श्रयते । सा तु पुरुषोत्तमसंगे लीलारसानुभवातिरिक्ता वक्तुमशक्या | मुक्तोपसृप्यव्यपदेशात् । मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ( भा. ६ | १४/५ ) इति स्मृतेश्च । मुक्तेः फलं भक्तिरसानुभव एव । एवं सत्युक्तगृहिणस्तत्फलं भवति न वेति संशये निर्णयमाह । एवंभूतस्योक्त१० रूपस्य मुक्तस्य मुक्तेर्यत्फलं भक्तिरसानुभवस्तस्यानियमस्तस्य भगवदिच्छाधीनत्वात् । साधनाप्राप्यत्वात् । अत एव - मुक्तिं ददाति कर्हिचित् स्म न भक्तियोगम् । ( भा. ५/६/१९ ) इति शुकवाक्यम् । अत्रौत्सर्गकहेतुमाह । तदवस्थेति । न से पुनरावर्तते ( छां. ८ १५/१ ) इत्यस्यावृत्त्या मुक्त्यवस्थाया एव सार्वदिकत्वेन निर्धारः क्रियते । यद्यप्येवं १५ मुक्तिफलाभावनियम एवायाति न तु तदनियमस्तथापि तस्य तावदेव चिरं (छां. ६ | १४ | २ ) इत्यादिप्रमाणैर्न स पुनरावर्तते ( छां. ८/१५/१ ) इति श्रुत्या समं विरोधाभावात्सर्गिकी तदवस्था । तत्फलं तु कस्यचिदित्यनुग्रहेण पुष्ट प्रवेशने भवतीति स्वाभिप्रायं प्रकटीकुर्वता बादरायणेन अनियम (ब्र. सू. ३।३।३१ ) इत्युक्तम् । एवं सति न स पुनरावर्तते ( छ. ८/१५१ ) इति श्रुतिः प्रपञ्चे पुनरावृत्तिं निषेधति न तु तदती - पीति ज्ञेयम् । समाप्तिज्ञापनायावृत्तिः । अथवा श्रुतौ तदस्थावधृतेर्हेतोरस्माकमपि तदवस्थावधृतिर्यतोतः फलानियम निश्चयोपीत्यर्थः । एवं सति मुक्तिपर्यन्तं साधनं भगवद्भाव इति निर्णयः संपन्नः ॥ ३।४।५१ ॥ ९ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाये तृतीयाध्यायस्य चतुर्थः पादः ॥ ३४ ॥ तृतीयोध्यायः समाप्तः ॥
२०
३००
१ अत्र - न च पुनरावर्तते इत्यधुनातन पुनरेषु वाटः
-