________________
अंथ चतुर्थाध्यायस्य प्रथमः पादः ।
___१ आवृत्त्यधिकरणम् । समन्वयेनाविरोधात् साधनैर्ब्रह्मविद् यदि। तस्याग्रिमव्यवस्था या सा च तुर्ये विविच्यते ॥ ४० ॥ जीवतो म्रियमाणस्य गच्छतः सफलस्य च । अतो ब्रह्मविदा कार्यमेवमेव न चान्यथा ॥ ४१ ।। तामसी बुद्धिमाश्रित्य ये मूढाः सर्वविप्लवम् । वदन्ति शास्त्रनाशाय सद्भिः शोच्याश्च येनु तान् ॥ ४२ ॥ ब्रह्मविद्मनाभावः शतांशेनापि चेद् भवेत् । शास्त्रमेतद् वृथा जातं सर्वमूत्रविनाशतः ॥ ४३ ॥ स्वाप्ययस्य च संपत्तेरत्र ब्रह्मगतिश्रुती। अन्यथा न श्रुतेरर्थः स्याचेद व्यासो वदेन किम् ॥ ४४ ॥ तामसी बुद्धिमाश्रित्य या मुक्तिः कैश्चिदुच्यते । सा सुषुप्तिश्रुतेरर्थो मोहादेवान्यथा मतिः ॥ ४५ ॥ अतो ब्रह्मविदः कार्य जीवतः पूर्वमुच्यते । आवृत्तिः श्रवणादीनां नवकृत्वोपदेशतः ॥ ४६॥ दर्शनार्थत्वतो लिङ्गादपि ब्रीह्यवघातवत् । आवृत्तौ श्रवणादीनामात्मेति स्याद् दृढा मतिः॥४७॥ आपाततो दर्शनं तदभेदेनापि बोध्यते । प्रतीकोपासनादीनां नैवं भावो हि जायते ॥ ४८ ।। आलम्बनार्थ तत्रापि ब्रह्मदृष्टिविशिष्यते । आदित्यादिब्रह्मदृष्टेरङ्गत्वं न स्वतन्त्रता ॥ ४९ ॥ मनने च निदिध्यासे विशेषश्वोच्यतेधुना । आसनादिषडङ्गैस्तु चित्तं श्रीतार्थ एव हि ॥ ५० ॥
-
4-M, A, C and 1) read चतुर्थे for च तुर्ये ।