________________
२९९ ८ गृहिणोपसंहार इत्यधिकरणम् । [अ. 3 पा. मु. ५० भगवदवतारसामयिकभक्तदशोक्ता । एते सर्वे फलमार्गीयाः । वाजसनेय्युक्तास्तु साधनमार्गीया इति नानुपपत्तिः काचित् ॥ २४।४७ ॥
___ मौनवदितरेषामप्युपदेशात् ॥ ३॥४॥४८॥
किंच संन्यासिन आवश्यका ये धर्मास्ततोधिकास्ते गृहिणः ५ सिध्यन्तीत्यतोपि हेतोस्तेनोपसंहारः कृत इत्याशयेनाह। मौनवदित्यादि। मौनपदमनीहानिलयामादित्रिदण्डिधर्मोपलक्षकम् । यथा वागिन्द्रियमात्रदेहमात्रचित्तमात्रनियामकास्ते धर्मा उक्ता न्यासिनस्तथेतरेषामपीन्द्रियनियामकानां धर्माणामात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्येति श्रुत्या गृहिण
उपदिश्यन्त इति यतो गृहिणोपसंहार इत्यर्थः। तत्र नियमनमात्रम् । अत्र १० तु भगवति निनियोगादाधिक्यामति भावः। वस्तुतस्तु केवलनियमनस्याप्रयोजकत्वात्तत्रापि भगवति विनियोग एव तात्पर्यमिति ज्ञेयम् ॥३।४।४८॥
अनाविष्कुर्वनन्वयात् ॥ १४॥४९॥ ननु भगवति सर्वेन्द्रियविनियोगाद् गहिगोपसंहार इति न युज्यते। शुचौ देशे स्वाध्यायमधीयानः ( छां. ८।१५।१ ) इत्यादिकर्ममार्गीय१५ साधनश्रुतेरित्याशङ्कय तत्तात्पर्यमाह । अनाविष्कुर्वन्निति । भगवद्भावस्य रसात्मकत्वेन गुप्तस्यैवाभिवृद्धिस्वभावकत्वादाश्रमधमैरेव लोके स्वं भगवद्भावमनाविष्कुर्वन् भजेतेत्येतदाशयेन ते धर्मा उक्ताः । गोपने मुख्य हेतुमाहान्वयादिति । यतो भगवता समन्वयं संबन्धं प्राप्य वर्ततेतो हेतो. स्तथा । अत्र ल्यब्लोपे पञ्चमी । एतेन यावदन्तःकरणे साक्षात्प्रभोः २० प्राकट्यं नास्ति तावदेव बहिराविष्करणं भवति । प्राकट्ये तु न तथा संभवतीति ज्ञापितम् ॥ ३।४।४९ ॥
ऐहिकमप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ २४५०॥
वैदिककर्मकरणे तात्पर्यमुक्त्वा लौकिकस्यानावश्यकत्वेपि तत्समयमाह । प्रस्तुतं प्रभुभजनं तत्प्रतिबन्धासंभव एवैहिकं कर्म कार्यम् । नन्वै२५ हिकं कर्मास्तु मा वा । अतस्तत्समयोक्तिर्व्यर्थेत्याशङ्कयाह । प्रस्तुतं प्रभु
भजनं तदर्शनादिति । आचार्यकुलादित्युपक्रम्याग्रे पठ्यते । धार्मिकान् विदधदिति । अतो धार्मिकपुत्रविधानमैहिकं कर्म श्रुतौ दृश्यतेतस्तत्समयोक्तिरावश्यकी। अन्यथा श्रुतावुक्तमस्तीति प्रस्तुतबाधेपि तत्करणे फलपतिबन्धः स्यादिति भावः ॥ १४॥५० ॥ ८॥