________________
अ. 3 पा. सू...] अणुभाष्यम् ।
__ २९८ ( छां. ८।१५।१ ) इत्युपक्रम्य छान्दोग्योपनिषदन्ते-आचार्यकुलाद्वेदमधीत्य गुरोः कर्मातिशेषेणातिसमावृत्य कुटुम्चे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहि सन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलो५ कमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते (छां. ८।१५।१ )।
इदं विषयवाक्यम् । ब्रह्मलोकमभिसंपद्यत इति गृहिणोपसंहारः कृतः। वाजसनेयिशाखायां च-तद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते (बृ. ४।४।२२) इत्युपक्रम्य-अथ भिक्षाचर्यं चरन्ति
(बृ. ४।४।२२ ) इति पठ्यते । एवं सति विकल्पे संभवत्युपसंहारस्य १० तात्पर्यग्राहकत्वाद् गृहिण एव यथोक्तकर्तुर्ब्रह्मसंपत्तिरिति श्रुतेस्तात्पर्यम् । त्यागोक्तिस्तु ब्रह्मैतादृशं यदर्थं सर्वं त्यज्यत इति स्तुतिपरेति प्राप्ते गृहिणोपसंहारे हेतुत्वेन तात्पर्यमाह । कृत्स्लेति । त्यागे वाङ्मन सोरेव भगवति विनियोगो न सर्वेन्द्रियाणाम् । गृहिणस्तु सर्वैः प्रकारैर्भजनं भवतीति परिजनश्च कृतार्थों भवतीति च भजने कृत्स्नता भवतीति तेनोपसंहारः १५ कृत इत्यर्थः । अत एवात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्येत्युच्यते । अत्रास्मपदं भगवत्परमिति ज्ञेयम् । कर्ममार्गीयगृहिव्यवच्छेदाय तुशब्दः । अत्रेदमाकूतम् । भक्तिमार्गो बहुविध इति कपिलदेववाक्यात् केचन भक्ताः स्वगृहेष्वेव स्नेहेन भगवदाकारे विविधोपचारैः सेवां कुर्वन्तस्तयैव निर्वृत्त्या मुक्तिमपि तुच्छां मन्यन्ते । तदुक्तं-मधुद्विट्सेवानुरक्तमनसामभवोपि २. फल्गुः ( भा. ५।१४।४४ ) इति । तेन भगवद्भजन एव तत्रापि पुष्टि
मार्ग एव श्रुतेर्भर इति ज्ञायते । पूर्वमुत्कटभगवद्भाववतां तदर्थं त्यागं निरूप्य गृहिणोपसंहारतात्पर्य पश्चाद् यनिरूपितवांस्तेन तादृग्भाववतैव त्यागः कार्यः । तद्रहितेन तु गृह एवोक्तरीत्या प्रभुभजनं कार्यम् । तेनैव तल्लाभ इति व्यासहृदयमिति ज्ञायते । उक्तभावाभावे त्यागधर्मानि२५ हादिति । केचन भक्ता भाषणादिलीलादर्शनं विना स्थातुमशक्ताः
प्रचुरभावविवशाशया गृहांस्त्यक्त्वा वनं गच्छन्ति । आत्रेयौडुलोमिभ्यां तु