________________
२९७
e
८ गृहिणोपसंहार इत्यधिकरणम् । [ अ. पा. ४.४७
भक्तिमार्गप्रचारकहृदयो बादरायणः । मानं भागवतं तत्र तेनैवं ज्ञेयमुत्तमैः ।। ३९ ।।
|| ३|४|४५ ॥ ६ ॥
७ सहकार्यन्तराधिकरणम् । सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् || ३ | ४|४६ ॥
ननु यमेवेति श्रुतिः साधनान्तरनिषेधपूर्वकं वरणस्यैव साधनत्वमाह । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत् ( बृ. ४/४/२३ ) इति श्रुतिः साधनान्तरमप्याह । १० एवं विरोधे श्रुतित्वाविशेषात् किमादरणीयं किं नेति संशये साधनान्तरविधिरेवादरणीयोन्यथा शास्त्रवैयर्थ्यं स्यादिति प्राप्ते ।
उच्यते । सहकार्यन्तरविधिरिति । मर्यादापुष्टिभेदेन वरणं द्विधोच्यते । तत्र सहकार्यन्तरविधिस्तु मर्यादापक्षेणोच्यते । पुष्टौ तु नान्यापेक्षेति न विरोधगन्वोपि । अपरं च साधनं हि कायिकं वाचिकं मान१५ सिकं च विधीयते । तत्र - मनसैवाप्तव्यम् ( क. ३।३ ) इति श्रुतेस्तृतीयं मुख्यम् । तदपि तावदेव मार्यादिकस्यापि विधेयत्वेन कर्तव्यं यावत् स्नेहो न भवति । यतस्तद्वतः स्नेहवतस्तूक्तं तृतीयं साधनमपि विध्यादिवत् । यथा ततो विधिरर्थवादो वा प्रवृत्तावप्रयोजकस्तस्य स्वत एव संभवात्तथा भगवत्प्राप्ताविदमित्यर्थः । कैमुतिकन्यायेन पूर्वयोरप्रयोजकत्वमेतच्छेषत्वादेवायास्यतीति तृतीयमेवोक्तम् || ३|४|४६ ॥ ७ ॥
८ गृहिणोपसंहार इत्यधिकरणम् । कृत्स्नभावात्तु गृहिणोपसंहारः || ३|४| ४७ ॥
ननु - हिस्तूभयथा ( ब. सू. ३/४/४३ ) इत्यादिना भगवदीयस्य गृहत्याग आवश्यक इति निरूपितम् । छान्दोग्ये तु - आचार्यकुलात्
14- C reads वाचनिकं for वाचिकं ।
१८ [ अणुभाष्य ]