________________
अ. ३ पा. ४ . ४४ ']
अणुभाष्यम् ।
२९६
1
-
सर्वत्यागपूर्वकं यद् बहिः प्रभुसमीपगमनं भक्तस्य तदीर्त्विज्यमृत्विक्कर्मैवेत्यौडुलोमिराचार्यो मन्यते । तस्यायमभिसंधिः । यजमानो ह स्वेष्टसिद्ध्यर्थमृत्विज आदौ वृणुते। प्रकृते च यमेवैष वृणुते (मुं. ३ २/३ ) इति श्रुतेः । तस्मादेकाकी न रमते ( बृ. १ ४ | ३ ) इति श्रुतेश्व स्वक्री - ५ डार्थं भगवान् स्वचिकीर्षिततत्तल्लीलारूपाञ्जीवान् वृणुते। यूनः स्थविरान्वेति विकल्पादेकरूपाणां यथा सोमादिषु वरणं तथा सर्वात्मभाववत्त्वेनैकरूपाणामेवात्र वरणम् । तत्र यथा स्वीयस्वीयतदङ्गमात्रकरणं तेषां तथेतरसंबन्धनिवर्तनपूर्वकं तद्भोग्यसमर्पकत्वमत्र । तदुक्तं भगवता - यदा पुमांस्त्य - समस्तकर्मा निवेदितात्मा विचिकीर्षितो में ( भा. ११।२९।३४ ) १० इति । अत्र पूर्वपदेनेतरसंबन्धनिवर्तनोक्त्या सर्वात्मभाव उक्तो भवति । तदनन्तरमात्मनिवेदने सति तद्विषयकलीलाकरणेच्छाविषयः संभवति । अन्तरङ्गलीलाप्रवेशनामिच्छार्यां विषयः । तस्मात्सुष्टुतमार्त्विज्यमिति । एतेन - न ददाति न पचति ( आ. सू. १०/१४/६/७ ) इत्यादिश्रुतेर्यथा सोमादौ दीक्षितस्य तद्यागेतरधर्मनिवृत्तिः स एव परमो धर्मो यतस्तथा १५ पुरुषोत्तमस्योक्तभक्तैः सह रमणमेव सार्वदिकम् । एतदेव च महन्महत्त्व - मिति सूचितं भवति । प्रकृते भक्तानामृत्विक्त्वेन निरूपणे हेतुत्वेन तात्पर्यान्तरमप्याह । तस्मै यजमानारब्धकर्मसाङ्गत्वाय ऋत्विक् परिक्रीयते । वरणेन स्वकार्यमात्रोपयोगित्वाय स्वीयः क्रीयते तथा प्रकृतेपि ।
20
नच क्वचित् कल्याण्यो दक्षिणाः इति प्रश्नवचनात्तदर्थैव तत्प्रवृ२० तिरत्र तु स्वतः पुरुषार्थत्वेन भगवदर्था प्रवृत्तिरतो वैषम्यमिति वाच्यम् । नीरागस्यापि वरणसमये तत्प्रश्नस्यावश्यकत्वात्तथैव दक्षिणादानमप्यन्यथा निरङ्गत्वापतेः । प्रकृतेपि भक्तानां स्नेहादेव प्रवृत्तिर्भगवान् स्वानुभवार्थमेव ताननुभावयतीति न वैषम्यम् || ३ | ४|४४ ॥
२५
श्रुतेश्व ॥ ३।४।४५ ॥
अथर्वणोपनिषत्सु पठ्यते । भक्तिरस्य भजने तदिहामुत्रोपाधिनैराश्येनैवामुष्मिन् मनःकल्पनमेतदेव च नैष्कर्म्यम् (गो. पू. ता ० १ ) इति ।