________________
२९५ ६ बहिस्तूभयथेत्यधिकरणम् । [अ. 3 पा. सू.. ( भा. ११७६ ) इत्यादिस्मृतिर्भगवद्भाववतस्तत्संगविशिष्टस्यापि बहिर्गभनमाह । तदाचारोपि तथैव श्रूयततस्तथा । अत्रायमाशयः । आश्रमधर्मत्वेन गृहत्यागो यदहरेवेत्यादिश्रुतिभ्यः पूर्वमुपपादितोपि यदधुना पुनरुच्यते तेन तदातरिक्तोयमिति ज्ञायते । तथा चोक्तवाक्यान्मुमुक्षमुक्तिप्र५ तिबन्धकत्वाभावेपि व्यासंगस्य तत्रावश्यकत्वादुक्तोभयोरप्यनवरतं प्रभुरसास्वादे प्रतिबन्धकत्वेन तस्य तत्त्यागस्य विप्रयोगरसानुभावकत्वेन च स कर्तव्यः । यद्यपि स्वेष्टान्तरायत्वेन स्वत एव तत्त्यागो भावी तथापिआश्रमादाश्रमं गच्छेत् (भा. ११।१७३८) इति वाक्यादत्राश्रमान्तरत्वा
भावेन त्यागस्याविहितत्वशङ्काभावायेयमुक्तिरिति ॥ १४४२॥ १० स्वामिनः फलश्रुतेरित्यात्रेयः॥१४४३॥
पुष्टिमार्गीयभक्तस्य विहितत्वादिति ज्ञानमप्रयोजकम् । तत्र हेतुः-तस्य भक्तिमार्गस्वामिनः श्रीगोकुलेशादेव फलस्य श्रुतेरतो बहिर्गमन न साधनत्वेनात्र कार्यमिति भावः । अत्र-यमेवैष वृणुते ( मुं. ३।३) इति
श्रुतिरनुसंधेया । एतदनुपदमेव पठ्यते । नायमात्मा बलहीनेन लभ्यः १५ ( मुं. ३३१४ ) इति । अत्र भगवद्वरणानन्तरमपि जीवबलं कतमद्
यदपेक्षो भगवल्लाभ इति जिज्ञासायां सर्वात्मभाव एव बलमिति निर्णीयते । तस्यैव मर्यादाबलोपमर्दकत्वाद्भगवदशीकारहेतुत्वाच्च । जसीमन्तिनीनां प्रभुवचनातिक्रममपि कृत्वा स्वरूपपरिग्रहस्तबलेनैव यत इत्या
त्रेय आचार्यो मनुते । इदमत्राभिप्रेतम् । सर्वात्मभावस्य यद्दलं तत्तदा२० त्मकस्य प्रभोरेव । तस्य चायं स्वभावो यदन्यत्र रोचते । अत एव व्रजपरिवृढवदनेन्दुवचनकिरणप्रचारपोच्छलत्केवलभावाम्बोधिवचनवीचयो गीयन्ते-यमुम्बुजाक्ष तव पादतलमस्प्राक्ष्म तत्प्रभृति नान्यसमक्षं स्थातुं पारयामः ( भा. १०।२९।३६ ) इत्यादयः । अतस्त्यागस्तु पृष्ठलम
इवायातीति न तदर्थं यतनीयामिति विष्ण्ववतारत्वेन पुरुषोत्तमभावस्वरूप२५ ज्ञोयमिति तथा ॥ ३।४।४३ ॥
आर्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ३४॥४४॥