________________
म. पा. * स्. ४०]
अणुभान्यम् ।
योगादपि न तथा । अथवा । तादृशस्य सदा भक्तिरसानुभवात्तदतिरिक्तस्यानपेक्षणादन्येषां फलानां संबन्धाभावादित्यर्थः ॥ ३।४।४० ॥ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥१४॥४१ ॥
एके भक्ता आधिकारिके फले पतनमात्रं न हेयत्वप्रयोजकमिति ५ वदन्त्यपि तूपपूर्वं पतनमेव तदिति वदन्ति । भक्तिभावाच्च्युतेः। अधिकारसमाप्तौ भगवदनुग्रहाशापि कदाचित्संभवतीत्युपपतनं तत् । मुक्तौ त्वपुनरावृत्तेर्भक्तिरसाशापि नेति महापतनमेव सेति भावः । तेन निषिद्धकर्मफलतुल्यत्वं ज्ञापितं भवति । अत एव श्रीभागवते नारायणपरा लोके न
कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः । (भा. ६।१८। १० २८) इति गीयते । भक्तिमार्गे तु साक्षात्संगाभावेपि तदीयभावमात्रमप्य
शनवत् साक्षाद्भगवत्स्वरूपभोगवदेव मन्यते । तदुक्तं श्रीभागवते-अथ ह वाव तव (भा. ६।९।३९) इत्यादिना। साक्षाद्भगवद्भोगो जीवस्यासंभावित इति शङ्कानिरासायाह । तदुक्तमिति । सोचते सर्वान् कामान् सह
ब्रह्मणा विपश्चिता (ते. २।१) इति । अत्र ब्रह्म समश्नुते (बृ. ४।४७ ) १५ इत्यादिश्रुतिषु साक्षाद्ब्रह्मस्वरूपरसाशनमुक्तमित्यर्थः ॥ १४।४१ ॥ ५ ॥
६ वहिस्तूभयथेत्यधिकरणम् । बहिस्तूभयथापि स्मृरेताचाराच ॥३॥४॥४२॥
अथेदं विचार्यते । प्रचुरभगवद्भावमात्रवतः साक्षात् स्वरूपभोगवतो वा गृहत्यागः कर्तव्यो न वेति फलस्य सिद्धत्वान्नेति पक्षव्यवच्छेदाय२० मद्वार्तायातयामानां न बन्धाय गृहा मताः (भा. ४।३०।१९) इति वाक्याद् बन्धकत्वेन त्याज्य इति पक्षव्यवच्छेदाय च तुशब्दः । भावमात्रे साक्षात्प्रभुसंबन्धे वोभयथापि गृहाद् बहिर्गमनं गृहत्याग इति यावत् । स आवश्यकः । तत्र प्रमाणमाह । स्मृतेरित्यादि । त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः सम्यक् समदृग् विचरस्व गाम् 18-1, A and Cread चिन्त्यत for विचार्यते ।