________________
२९३
Yo
५ न चाधिकारिकमित्यधिकरणम् । [ अ. 3 पा. ४ सू. पदम् (तै. सं. १ ३ ६ ) इत्युक्त्वा तदनन्तरं तत्र कृतानि कर्माण्यपि - विष्णोः कर्माणि पश्यत ( तै. सं. १ ३ ६ ) इति मन्त्रेण निरूप्य पुनः पूर्वोक्तलीलास्थानं तद्विष्णोः परमं पदम् ( तै. सं. १/३/६ ) इति पदेनानूद्य तस्य नित्यत्वनिरूपणायोच्यते । सदा पश्यन्ति सूरयः ( तै. सं. ५ १।३।६ ) इति सूरयो विद्वांसः पुरुषोत्तमज्ञानवन्त इति यावत् । तच्च भक्त्यैवेति सूरिपदेन भक्ता उच्यन्ते । तथाच भक्तानां सार्वदिकदर्शनं नियम्यते सदेतिपदेन । एवं सति पुष्टिमार्गीयभगवद्भावं प्राप्तस्य मुक्तावुच्यमानायां तन्नियमो भज्येतेत्यर्थः । यच्चोक्तं साधनावस्थायामुत्तमावस्थारूपत्वं परं तदीयत्वस्य फलं मुक्तिरेवेति तत्राहातद्रूपेति । उक्तभगवदी१० यत्वं न साधनरूपमपि तु मुक्तेरपि फलरूपम् । मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा ( भा. ६।१४।५ ) इति वाक्यात् । यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि श्रिताः । अथ मर्त्योमृतो भवत्यत्र ब्रह्म समश्नुते ( बृ. ४/४/७ ) इति श्रुत्यामृतस्य मुक्तस्य ब्रह्मस्वरूपभोग उच्यते । स च - यमेवैष वृणुते (मुं. ३ २/३ ) इति श्रुतेर्भ१५ गवदीयत्वसाध्य एवेति स्पष्टफलत्वमस्यातोतद्रूपत्वम् । किं । फलं हि साधनादुत्तमं भवति । भगवदीयत्वादुत्तमस्यार्थस्याभावादपि न मुक्तिर्वमुचिता । तदुक्तं श्रीभागवते पञ्चमस्कन्धे पूर्वं भक्तिस्वरूपं निरूप्य - तथैव परया निर्वृत्त्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः (भा. ५/६/१७ ) इति
1
२० ॥ ३।४।३९ ॥ ४ ॥
५ न चाधिकारिकमित्यधिकरणम् ।
नचाधिकारिकमपि पतनानुमानात्तदयोगात् || ३ | ४ ४० ॥
अथेदं विचार्यते। ध्रुवायेव ब्रह्मादिलोकाधिकारं दत्वा तत्संबन्धिफलं ददाति न वेति । तत्र नेत्याह । न चेति । तत्र हेतुः । पतनानुमानादिति । २५ आंब्रह्मभुवनांल्लोकाः पुनरावर्तिनोर्जुन ( भ. गी. ८/१६ ) इति स्मृतेरित्यर्थः । फलस्य सावधित्वादिति भावः । किंच तादृशे भगवदीये यजना