________________
अ. पां. सू. ३८]
अणुभाष्यम् ।
२९२
येन भजनानन्दानुभवः स्यात् । भक्तानां तु देहेन्द्रियादिकमपि मायातत्कार्यरहितत्वेनानन्दरूपत्वेन च भगवदुपयोग्यतोपि तत्तथेत्यर्थः । न हि मुक्तात्मनां कश्चन भगवदुपयोगोस्तीति भावः । तदुक्तं श्रीभागवते - न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिता: ( भा. २/९/१० ) ५ इत्यादि मुक्तोपसृप्यत्वं चोच्यते । अत एव सप्तमस्कन्धे देहेन्द्रिया सुहीनानां वैकुण्ठपुरवासिनाम् ( भा. ७|१|३४ ) इत्युक्तम् । पुरवासित्वे देहादेरावश्यकत्वान्निषेधो जडात्मकानामेवेत्यवगम्यते । इतरज्ज्या इति पाठे तु पूर्वोक्ताश्रमकर्मपरामर्शोत इत्यनेनोक्तयोरेव वा । एतेन - सोते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (ते. २ ।१ ) इत्युक्तफलवत्त्वं १० तस्य सूच्यते || ३|४|३८ ॥ ३ ॥
४ तद्भूतस्येत्यधिकरणम् ।
तद्भूतस्य तु नातद्भावो जैमिनिरपि नियमातद्रूपाभावेभ्यः || ३|४|३९ ॥
अथेदं विचार्यते । तदीयानामपि कदाचित् सायुज्यमस्ति न वेति । १५ तत्र भक्तिमार्गस्यापि साधनरूपत्वात्तस्य च मुक्तावेव पर्यवसानात्तदीयत्वस्य साधनावस्थारूपत्वात् तेषामपि मुक्तिरावश्यकी । तथा च फलता न कश्विद् विशेष इति प्राप्ते ।
उच्यते । तद्भूतस्येत्यादि । तुशब्देन मर्यादामार्गीयव्यवच्छेदः । अत्र विश्वासदाढर्यांयाह । अन्यस्य का वार्ता कर्ममात्रनिरूपकस्य जैमि२० नेरपि यदि कदाचिद् भगवत्कृपयायं भावो भवेत्तदा तद्भूतस्य पुष्टिमार्गीयभगवद्भावं प्राप्तस्य तस्यापि नातद्भाव उक्तभावतिरोधानं न कदाचिदपीत्यर्थः । अत्र हेतूनाह । नियमादीन् । तैत्तिरीयके-ते ते धामान्युष्मसि (तै. सं. १ ३ ६) इति मन्त्रे यत्र भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य परमं
9-M, A and C read इति श्रुत्युक्त for इत्युक्त |
17- C reads कर्मफलतो for फलतो ।