________________
१०
३ विहितत्वाश्वाश्रमकर्मेत्यधिकरणम् । [म. 3५१. ४ ७८
अन्तरा चापि तु तद्दृष्टेः || ३|४|३५ ॥
1
भगवद्धर्मेभ्य आश्रमधर्मा हीना इत्यप्यल्पमुच्यते । अपि तु तस्मि - पुरुषोत्तमे धर्मिण्येव दृष्टिस्तात्पर्यं यस्य पुंसस्तस्याश्रमधर्मा अन्तरा च फलसिद्धौ व्यवधानरूपाश्चेति श्रुतिर्दर्शयतीति पूर्वेण संबन्ध: । अन्तरा - शब्दोत्राव्ययात्मको व्यवधानवाचकः । तथा च श्रुतिः । एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोयमात्मायं लोकः (बृ. ४ । ४ । २२ ) इति ऋणापाकरणहेतुत्वेन लौकिकोत्कर्षहेतुत्वेनापि प्रजाया अभीष्टत्वेपि तदुत्पादनव्यासंगेन भगवदानन्दानुभवेन्तरायो भविष्यतीति तद्दृष्ट्या तत्रोपेक्षां दर्शयति || ३ | ४ | ३५ ॥ अपि स्मर्यते || ३ | ४ ३६ ॥
१५
२९१
अपिशब्देनाश्रमधर्माणां तथात्वं किमु वाच्यं यतो ज्ञानतत्साधनवैराग्यादीनामप्यन्तरायरूपत्वं स्मर्यते । तस्मान्मद्भुक्तियुक्तस्य योगिनो वै मदात्मनः। न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ( भा. ११-२०३९-६-१४-६ ) इति भगवद्वाक्यम् || ३ | ४ | ३६ ॥
विशेषानुग्रहश्च ॥ ३।४।३७॥
स्मर्यत इति पूर्वेण संबन्धः । ज्ञानादेः सकाशाद्भक्तिमार्गे फलतोप्युत्कर्षमाह । ज्ञानादिसाधनवस्त्वनुग्रहो मुक्तिपर्यन्त एव । भक्तिमार्गे तु - अहं भक्तपराधीनो ह्यस्वतंत्र इव द्विज ( भा. ९ । ४ । ६३ ) इत्यादिवाक्यैर्विशेषरूपो मुक्तादिभ्योपि भक्तानां व्यावर्तको भगवदनुग्रहः स्मर्यत २० इत्यर्थः ॥ ३।४।३७॥
गूढाभिसंधिमुद्घाटयन् फलितमर्थमाह ।
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३।४।३८ ॥
अत इति पूर्वोक्तश्रुतिस्मृतिपरामर्शः । तथा चेतरस्या मुक्तेरपि भक्तिमार्गीयतदीयत्वमेव ज्याय इत्यर्थः । अत्र हेत्वन्तरमाह - लिङ्गा२५ च्चेति । मुक्तानां तु मायाविनिर्मुक्तमात्मस्वरूपमेव न तु देहेन्द्रियादिकमप्यस्ति