________________
अ. ३ पा. ४ सू. ३३ ]
अणुभाष्यम् ।
२९०
1
एव भगवद्धर्मा एव कर्तव्या इत्यर्थः । कुतः । श्रुतिलिङ्गात् स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तु-तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहूञ्छब्दान् वाचो विग्लापनं हि तत् । (बृ. ४।४।२१ ) इति । तमेवेकं जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ( मुं. ५ २।२।५ ) इत्यपि । अत्रैवकारेण भगवदतिरिक्तं प्रतिषिध्य तद्विषयकं ज्ञानानुकूलं प्रयत्नं श्रवणात्मकं विज्ञायेति विधाय स्मरणमपि तन्मात्र - विषयकमेव प्रज्ञां कुर्वीतेति वचनेन विधाय तदेकनिष्टताहेतुभूतानामेव शब्दानामावर्तनमर्थानुसंधानमपि कर्तव्यं नान्येषामिति नानुध्यायाद् बहूनित्यनेनोक्तवती । अत्रान्वित्युपसर्गेण ध्यानस्य पश्वाद्भावित्वमुच्यते । 1. तॆन योग्यतया श्रवणकीर्तने एव तत्पूर्वभाविनी प्राप्येते । स्मृतिस्तु - शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहो परमं पदाम्बुजम् ( भा. १/९/३६ ) इति । महात्मानस्तु मां पार्थ देवीं प्रकृतिमास्थिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । सततं कीर्तयन्तो मां यतन्तश्व दृढव्रताः १५ स्यन्तश्व मां भक्त्या नित्ययुक्ता उपासते ( भ.गी. ९।१३ - १४ ) इति । एतेन भगवद्धर्माणामात्मधर्मत्वेनान्तरङ्गत्वादाश्रमकर्मणो देहधर्मत्वेन बहिरङ्गत्वात्तदविरोधेनैव तत्कर्तव्यमिति स्थितम् । अत एव भगवर्मान्यधर्मं प्रतिषिध्यतेषां सर्वेभ्य आधिक्यं ज्ञापयितुं - स वा अयमात्मा सर्वस्य वशी ( बृ. ४/४/२२ ) इत्यादिना भगवन्माहात्म्यमुक्तम् २० || ३|४|३३ ॥
नम
अनभिभवं च दर्शयति || ३ | ४ | ३४ ॥
1
प्राधान्येन भगवद्धर्मा एव कर्तव्या इत्यत्रोपोलकान्तरमनेनोच्यते । सर्वं पाप्मानं तरति । नैनं पाप्मा तरति । सर्वं पाप्मानं तपति । नैनं पाप्मा तपति (बृ. ४।४।२३ ) इत्यादिना भगवद्धर्मानुरोधेनाश्रम२५ कर्माकरणजदोषैरनभिभवं च श्रुतिर्दर्शयत्यतो भगवद्धर्मा एव सर्वेभ्य
उत्तमानि साधनानीत्यर्थः ॥ ३|४|३४ ॥
26- C reads उत्तमा इत्यर्थः for उत्तमानि साधनानीत्यर्थः ।
ין