SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३ विहितत्वाश्चाश्रमकर्मेत्यधिकरणम् । [ अ. पा. ४ सू. ७३ उपरतस्तितिक्षुः (बृ. ४/४/२३ ) इत्यादिरूपः शब्दः कामकारनिवर्तकः श्रूयत इत्यर्थः || ३|४|३० ॥ २ ॥ २८९ ३ विहितत्वाच्चाश्रमकर्मेत्यधिकरणम् । एवं ज्ञानस्य कर्मनाशकत्वे सिद्धे जातज्ञानस्याश्रमकर्म कर्तव्यं ५ न वेति चिन्त्यते । तत्र फलस्य जातत्वात् कृतस्यापि नाश्यत्वेनाप्रयोज - कत्वान्न कर्तव्यमिति पूर्वः पक्षः । तत्र सिद्धान्तमाह । विहितत्वाच्चाश्रमकर्मापि ॥ ३ | ४ | ३१ ॥ २० यथा ज्ञानिनामप्यनापदि शिष्टानामेवान्नं भक्षणीयं विहितत्वात्तथाश्रमकर्मापि कर्तव्यमेव नित्यं विहितत्वादित्यर्थः । यथानापद्यशिष्टान्न - १० भक्षणं दोषाय निषिद्धत्वात् । एतच्चोपपादितं सर्वान्नानुमतिरित्यत्र । तथा नित्यत्यागोपि प्रत्यवायजनक इति तत्कर्तव्यमेवेति भावः || ३ | ४ | ३१ ॥ यञ्च्चोक्तं कृतस्यापि नाश्यत्वेनाप्रयोजकत्वान्न कर्तव्यमिति तत्राह । सहकारित्वेन च || ३|४|३२ ॥ सहकारीण्याश्रमकर्माणीत्येत शमदमादीनामन्तरङ्गसाधनानां १५ द्रहितैः शमादिभिरपि ज्ञानं न स्थिरीकर्तुं शक्यमिति तानि कर्तव्यान्येवेत्यर्थः। संसारवासनाजनकत्वस्वभावो यः कर्मणां स ज्ञानेन नाश्यत इति न सहकारित्वेनुपपत्तिः काचिदिति भावः || ३|४|३२ ॥ एवं ज्ञानमार्गीयज्ञानस्थैर्यसाधनमुक्त्वा भक्तिमार्गीयसाधनानां भगवच्छ्रवणादीनामित आधिक्यमावश्यकतां चाह । सर्वथापित एवोभयलिङ्गात् ॥ ३।४।३३ ॥ भगवच्छ्रवणकीर्तनादयः साधनान्तरवद्विहितत्वेन कर्तव्या एव यद्यपि तथापि सर्वथापि अन्येषां युगपदुपस्थितौ तदनुरोधमकृत्वापि त 11-ख reads तत्त्यागोपि for नित्यत्पागोपि । ● ३७ [ अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy