________________
अ. ३ पा.-४ सू. २७ /
अणुभाष्यम् ।
विशेषविषयकत्वमुक्तं यत्तेन ज्ञानिनोप्यनापदि विहितत्यागोविहित करणं च चित्तमालिन्यजननेन ज्ञानतिरोधायकमिति श्रुत्यभिमतमिति ज्ञाप्यते । अत एव श्रीभागवते द्वितीयस्कन्धे विशुद्धं केवलं ज्ञानं प्रत्यक्सम्यगव - स्थितम् । सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् । ऋषे विदन्ति मुनयः ५ प्रशान्तात्मेन्द्रियाशयाः । यदा तदेवास तर्कैस्तिरोभूयेत विप्लुतम् ( भा. २/६/३९ - ४० ) इति ब्रह्मणोक्तम् । ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति (मा. पु. दे. मा. १/५४ ) इति मार्कण्डेयेनाप्युक्तम् । एषा ज्ञानमार्गीयज्ञानवतो व्यवस्थेति ज्ञेयम् । भक्तिमार्गीयस्यैवमापदसंभवात् । अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपा१० सते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् (भ.गी. ९ । २२ ) इति भगवद्वाक्यात् । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते (भ.गी. ७|१४ ) इत्यत्रैवकारेण पुरुषोत्तमज्ञानवत एव मायातरणो केरक्षरमात्रज्ञानवतां तथात्वमुचितम् || ३ | ४|२७ ॥
अबाधाच || ३|४|२८ ॥
आपदि तथान्नभक्षणेन चित्ताशुध्यसंभवेन तज्जनितप्रतिबन्धाभावाच्च न दोष इत्यर्थः ॥ ३|४|२८ ॥
अपि स्मर्यते || ३|४|२९ ॥
आपद्यविदुषोपि दुष्टान्नभक्षणे पापाभावो यत्र स्मर्यते तत्र विदुषि श्रुत्यनुमते का शङ्केत्यर्थः । स्मृतिस्तु - जीवितात्ययमापन्नो योन्नमत्ि २० यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ( म. स्मृ. १०।१०४ ) इति । अथवा विदुषो दुष्टकर्मासंबन्धो - ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ( भ. गी. ४।३७ ) इति स्मर्यतेपीत्यर्थः || ३।४।२९ ॥ शब्दात कामकारे || ३ | ४ | ३० ॥
१५
२८८
यतो ज्ञानाग्निरेव सर्वकर्मदहनसमर्थ इति फलदशायां कामकारेपि न दोषोत एव साधनदशायां तदभावेन - तस्मादेवंविच्छान्तो दान्त