________________
२८७ २ सर्वापेक्षेत्यधिकरणम्। [अ. 3 पा. २७ तु तत्फलसिद्धावपि तथाधिभौतिकाध्यात्मिकाधिदैविकप्रतिबन्धनिवृत्तावेव तेषां साधनत्वं न तु भगवत्पानावपत्यिर्थः । इदं च मुमुक्षुभक्तविषयकामिति ज्ञेयम् । आत्यन्तिकभक्तिमतां भक्तीतरानपेक्षणात् ॥ १४।२५ ॥ शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया
तेषामवश्यानुष्ठेयत्वात् ॥ ३॥४॥२६॥ ननु-तस्मादेवंविच्छान्तो दान्त (बृ. ४।४।२३) इत्यादिना शमादेरेव ज्ञानसाधनत्वमुच्यते न तु यज्ञादेरिति चेत्तत्राह शमदमाद्युपेतो भक्तिमार्गेपि स्यादेव यद्यपि तथापि तदङ्गतयात्मन्येवात्मानं पश्येदिति
ज्ञानमार्गीयज्ञानाङ्गतयैव शमादिविधेहेंतोनिमार्गे तेषामवश्यानुष्ठेयत्वात्तथा १० विधिरित्यर्थः । भक्तिमार्गे स्वत एव शमादीनां संभवेप्यावश्यकत्वं न तेषामिति भावः ॥ १४॥२६॥ सर्वान्नानुमतिश्च प्राणात्यये तदर्शनातू ॥३।४।२७ ॥
ननु सत्त्यशोधकत्वेन यज्ञशमदमादेविधानमिति मतं नोपपद्यते । आहारशुद्धौ सत्त्वशुद्धिः (छां. ७।२६।२ ) इति श्रुतेस्तद्विरुद्धा सर्वान्न१५ भक्षणानुमतिरपि यतः श्रूयते छन्दोगानाम् । न ह वा एवंविदि किंचनानन्नं भवति (छां. ५।२।१ ) तथा वाजसनेयिनां-न ह वा अस्यानन्नं जग्धं भवति (बृ. ६।१।१४) इत्यादि । तस्मात्सत्त्वशुद्ध्यर्थं यज्ञादेर्न विधानमिति प्राप्ते विषयव्यवस्थामाह । आहारदौलभ्येन प्राणात्यय उप
स्थिते प्राणधारणस्य ज्ञानान्तरङ्गतमसाधनत्वेनाहारस्य देहपोषकत्वेन ततो ३० बहिरङ्गत्यात्तदनुमतिः क्रियत इत्यर्थः । अत्र प्रमाणमाह। तद्दर्शनादिति ।
चाकायणः किलर्षिरापद्गत इभ्येन सामिखादितान् कुल्माषांश्चखाद (छां. १।१०।५) इत्यादिश्रुतिदर्शनादित्यर्थः । यद्यपि ज्ञानसाधनत्वेन सत्त्वशुद्धेरपेक्षितत्वाजाते ज्ञाने तत्साधनानपेक्षणादेवंविदीति वचनात्
तादृशे सार्वदिक्यपि तदनुमातिर्नानुचिता । अपि स्मथते ( ब्र. सू. २५ ३।४।२९ ) इत्यनेनाविदुषोप्यनुमतेर्वक्ष्यमाणत्याच्च । तथाप्याचार्येणावस्था
१ श्रतितासमेतल।