________________
अ. 3 पा. सु. १५)
अणुभाष्यम् ।
२८६
देशैरेव तत्संभवात् । आचार्यवान् पुरुषो वेद (छां. ६।१४।२) इति श्रुतेः । अत्र सिद्धान्तमाह । सर्वापेक्षेति । सर्वेषां कर्मज्ञानभक्तीनां पुरुषोत्तमज्ञानोत्पत्तावस्त्यपेक्षा । अत्र प्रमाणमाह । यज्ञादिश्रुतेरिति यज्ञादिनिरूपिका श्रुतिरेव प्रमाणं यत इत्यर्थः । इदमत्राकृतम् । पुरुषोत्तम एव ५ स्वतन्त्रपुरुषार्थरूपस्तत्प्राप्तिरेव फलम् । तत्र प्रेमभक्तिजं तज्ज्ञानमेव साधनमिति-ब्रह्मविदाप्नोति परम् (तै. २।१ ) इत्यादिना-एतद्विदुरमृतास्ते भवन्ति (बृ. ४।४।१४ ) इत्यादिश्रुतिसहस्रैश्च प्रतिपाद्यते । अथेतरे दुःखमेवोपयन्ति (बृ. ४।४।१४ ) इति श्रुत्या ज्ञानरहितानां दुःखमात्रप्राप्तिरुच्यते । एवं सति स्वतोपुरुषार्थरूपं यज्ञादिकं सर्वार्थतत्त्वप्रतिपादिका १० श्रुतिर्यनिरूपयति तत्सर्वथा पुरुषार्थसाधनत्वेनैवेति मन्तव्यम् । तच्च निष्कामतयैव कृतं तथा । अत एव वाजसनेयिशाखायां-यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति (बृ. ४।४।५ ) इत्युपक्रम्य पठ्यते । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति नु कामयमानोथाकामयमानो योकामो निष्काम आत्मकाम आप्त१५ कामो भवति न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्
ब्रह्माप्येति (बृ. ४।४।६) इत्यादि । अत्र अथाकामयमानः कर्ता निरूप्यत इति शेषः । यः पुमान् कर्मकृतावकामस्ततो निष्कामः सन्नात्मकामो निरुपधिस्नेहवान् प्रभौ ततो भगवत्प्राप्तचाप्तकामो भवतीत्यर्थः ।
अत्र यथाकारीत्यादिना कर्मकर्तुरेवोपक्रमादथाकामयमान इत्यनेनापि २० तथाभूतः स एवोच्यते । एवं सति सत्कर्मणि प्रवृत्त्यर्थं विविधफलानि
स्वयमेवोक्त्वा जनान् भ्रामितवानिति स्वोक्तकरणाच्चिरेण दयया निष्कामं करोति सकामतयापि क्रियमाणेन वैदिककर्मणानेकजन्मभिः संस्कारविशेषपचयेनापि तथा। कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते इति स्मृतिभ्यश्च
ज्ञानोत्पत्तौ कर्मापेक्षास्तीति। चकारेण पुष्टावङ्गीकृतस्य सर्वानपेक्षेति सा समु२५ चीयते । अत एव नायमात्मेत्यादिश्रुतिर्न विरुध्यते । ननु ज्ञानद्वारा कर्मा
दीनामेव फलसाधकत्वमास्त्विति शङ्कानिरासाय दृष्टान्तमाह । अश्ववदिति । यथा स्नेहफलसाधकदेशव्यवधानात्मकदेशातिक्रमेश्वस्य साधनत्वं न