________________
२८५
२ सर्वांपेक्षेत्यधिकरणम् । [ अ. पा. ४ सू. २५
बाधकं पश्याम इति चेद् उच्यते । अश्वमेधप्रकरणे - मनुर्वैवस्वतो राजा इत्यादीन्याख्यानानि यत्र पठितानि तत्र सामान्यतस्तेषां विनियोगः सर्वाण्याख्यानानि पारिप्लवे शंसतीत्यनेनोक्त इति सर्वशब्दस्तदाख्यानपर एव न त्वाख्यानान्तरपरोपि । प्रकरणस्य नियामक - ५ त्वात् । एवं सति यदा पारिप्लवाख्यकर्मप्रस्तावस्तदा विशेषविनियोग उक्तः । पारिप्लवमाचक्षतेति । तत्र प्रथमेहनि - मनुर्वैवस्वतो राजा इति । द्वितीयेन – इन्द्रो वैवस्वत इति । तृतीयेह नियमो वैवस्वतो राजा इत्याद्याख्यानविशेषा वाक्यशेषे विनियुज्यन्ते । आख्यानसामान्यपरत्वे त्वहोविशेष उपाख्यानविशेषविधानं न स्यात् । अत एव १० पारिप्लवमित्येकवचनमतो नाख्यानान्तरगन्धसंबन्धोपि । प्रापकाभावात्
॥ ३।४।२३ ॥
अत एव चानीन्धनाद्यनपेक्षा || ३|४|२४ ॥
एवं पुरुषार्थोतः शब्दात् ( ब्र. सू. ३।४।१ ) इत्युपक्रम्य ज्ञानस्य फलसाधने कर्मानपेक्षत्वमुपपाद्य तत्रैवोपपत्त्यन्तरमाह । यतो ज्ञानी ज्ञानेन १५ स्वयमेव यज्ञात्मको जातोत एव जरामर्याग्निहोत्रेग्निस्तदिन्धनं समिदादीति तदादाय आज्यादयस्तेषामनपेक्षोक्ता । श्रुतौ तैत्तिरीयके पठ्यते । तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदलमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोनिः ( ना. ८० ) इत्यादि । एतेन यदन्यस्य यज्ञतासंपादकं तस्य स्वकार्य - २० साधने कथं यज्ञापेक्षा भवेदिति भावः सूच्यते ॥ ३।४।२४ ॥ १ ॥
२ सर्वापेक्षेत्यधिकरणम् ।
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३।४।२५ ॥ उक्तन्यायेन ज्ञानं प्रति कर्मण: फलोपकारित्वाभावेपि स्वरूपोपकारित्वमस्ति न वेति चिन्त्यते । तत्र नेति पूर्वः पक्षः । गुरूपसत्तितदुप -
8-C reads इत्याख्यान for इत्यायाख्यान ।