________________
अ. पां. ४ सु. २२ ]
विशेषज्ञानार्थमाकाशादिकर्तृत्वमुक्त्वानन्दमयत्वं रसरूपत्वमप्युक्वा भाषास्मादित्यादिना सर्वनियामकत्वं चोक्त्वा भगवानेव पूर्णानन्द इति ज्ञापनायानन्दगणनां कृत्वानन्दमयं पुरुषोत्तमं प्राप्तेनानुभूयमानानन्द स्वरूपंयतो वाचो निवर्तन्ते अप्राप्य मनसा सह (तै २१ ) इत्यादिनेोक्त्वा ५ तद्विदो माहात्म्यमुच्यते । एत ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम् (तै. २।९ ) इति । अत्र ज्ञानवान् सच्चिद्रूपदेशकालापरिच्छिन्नं सर्वकर्तारं निरवध्यानन्दात्मकं सर्वनियामकं मनोवागगोचरं पुरुषोत्तमं प्राप्नोति । कर्म तु स्वयं क्लेशात्मकं तद्वांश्व अस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ. ४ | ३ ३२ ) इति श्रुतेः । क्षुद्रत१० रानन्दजनकस्वर्गपश्वादि फलमाप्नोतीति विहितनिषिद्धकर्मणोश्वाप्रयोजकत्वं तस्मिन्नुच्यत इति कर्मणः सकाशाज्ज्ञानस्य निरवधिरेव विशेष उच्यत इति न धर्म्यसिद्धिर्न वा कर्मशेषत्वं ज्ञानस्य सिध्यति ||३|४|२२||
तथाप्याख्यानप्रतिपादितविद्यानामसिद्धिरेवेति चेत्तत्राह ।
अणुभाष्यम् ।
२८४
तथा चैकवाक्यतोपबन्धात् || ६|४| २३ ||
१५
ग्रथा केवलश्रुतेर्विद्याप्राधान्यं तथैवोपाख्यानश्रुतीनामित्यर्थः । चकारेण प्रश्नोत्तरैर्निर्णीतार्थप्रतिपादनम् । महतामेवात्र प्रवृत्तिः । सापि बह्वायासपूर्विकेति विद्यामाहात्म्यज्ञापनं प्ररोचनं चाधिकमुपाख्यानानामुपाख्यानं विनैव विद्यानिरूपिकायाः श्रुतेः सकाशादित्युच्यते । तत्र हेतुरेकवाक्यतोपबन्धादिति । आचार्यवान् पुरुषो वेद ( छां ६ । १४ । २ ) इति २. श्रुत्यैकवाक्यताज्ञानमाख्यानं विना न भवतीति तदर्थमुपबन्धाद् गुरुशिष्यकथोपबन्धादित्यर्थः । अथवोपाख्यानरहितायां श्रुतौ यथा ज्ञानं निरूप्यते तथैव - अधीहि भगव इति होपससाद सनत्कुमारं नारदः ( छां. ७|१|१ ) इत्याद्याख्यानेष्वपि निरूप्यत इत्यनाख्यानश्रुत्यैकवाक्यतयैवाख्याने ज्ञानस्वरूप बन्धात् प्रतिपादनादित्यर्थः । नैकट्यवाचिनोपपदेन २५ वस्तुसती या तत्तद्गुरुतत्तच्छिष्यकथा तत्सामीप्यमत्रोच्यते । अन्यथा सामीप्यासंभवादतः कल्पितत्वशङ्कानिरासः । नन्वेवमपि पारिवार्थत्वे न
1