________________
२८३
१ पुरुषार्थीत इत्यधिकरणम्। [ अ. पा. ४ सू. २२
येन परंपरया तदाहानयर्चा - तं विदित्वा ब्राह्मणो भवतीति श्रुतेर्ब्राह्मणपदेन ब्रह्मविदुच्यते । तथा चाद्यपदेन बुद्धिस्थ ब्राह्मणमाहात्म्योद्देशे कृते स क इत्याकाङ्गायामाह तं ब्राह्मणं विदित्वा विहितनिषिद्धफलासंबन्धी भवतीतिलक्षण इत्यर्थः । साक्षाद्भगवाद्वेदः किम् वाच्यमिति भावः । ५ अतस्तस्यैव तच्छब्दस्य पूर्वपरामर्शित्वाद् ब्राह्मणस्यैव भगवद्विदो भक्तस्यैव पदवित् स्यात् तज्ज्ञानानुकूल प्रयत्नवान् स्यात् तद्भजेतेति यावत् । तथा च यत्र भक्तविद्विषयकज्ञानस्याप्युक्तरीत्या न कर्मशेषत्वं वक्तुं शक्यं तत्र भगवज्ज्ञानस्य तथात्वं दूरदूरतरमिति सर्वं सुस्थम् ॥ ३।४।२१ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् || ३ | ४|२२ ॥
अथ प्रकारान्तरेण शङ्कते । भृगुर्वै वारुणिर्वरुणं पितरमुपससार । ( तै. ३।१ ) अधीहि भगव इति होपससाद सनत्कुमारं नारदः । ( छां. ७१ १/१ ) प्रतर्दनी ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ( कौ. ३१ ) इत्यायुपाख्यानहिं ब्रह्मविद्या निरूप्यते । सर्वाण्याख्यानानि पारिप्लवे शंसन्तीति श्रुत्या शंसनशेषत्वं तेषामवगम्यते । शंसने १५ शब्दमात्रस्य प्राधान्येनार्थज्ञानस्यातथात्वादुपदेशान्ताख्यानप्रतिपाद्यं ज्ञानं मन्त्रार्थवदप्रयोजकमिति कर्मशेषत्वमपि न वक्तुं शक्यम् । प्राधान्यं तु दुरापास्तम् । धर्मिण एवासिद्धिरित्याह । पारिप्लवार्था इति । उक्तरीत्या सर्वा उपाख्यान श्रुतयः कर्मशेषभूता इत्यर्थः । अत्राचार्य एवमपि कर्मशेषत्वं ज्ञानस्य न संभवतीत्याह । नेति । कुतः । विशेषितत्वात् । कर्मणः २० सकाशाज्ज्ञानं विशेषितमधिकधर्मविशिष्टत्वेनोक्तमिति न ज्ञानस्य कर्मशेषत्व. मित्यर्थः । ननु विशेषितमाख्याने वेवेत्यप्रयोजको हेतुरिति चेन्नैवम् । आचार्याशयानवगमात् । तथाहि पूर्वं तुष्यतु दुर्जन इति न्यायेनाख्यानानां शंसनशेषत्वमुपेक्षित्वोच्यते । न ह्याख्यानेष्वेव ज्ञानं निरूप्यते । किंत्वन्यत्रापि । तथा हि । तैत्तिरीयके पठ्यते । ब्रह्मविदाप्नोति परम् । तदे२५ षाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म ( . २1१ ) इत्युपक्रम्य माहात्म्य
१०
8-U reads दूरतरं for दूरदूरतरम् ।