________________
अ. 3 पा. ४ . २०
अणुभाष्यम् ।
____२८२
तद्विदि न वदेदतो ज्ञानं कस्यचिदेकस्य भवतीति ज्ञानस्य दुर्लभत्वं ज्ञाप्यते । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः (भ. गी. ७३) इति भगवद्वावयाच्च । तर्हि वेदानुवचनादिषु निःशंका प्रवृत्तिः कथम् । इत्थम् । स वा अयम् ५ (बृ. ४।४।२२ ) इत्यादिकया पूर्वश्रुत्या भगवन्माहात्म्यं श्रुत्वा यथा
कथंचित् तद्वेदनौत्सुक्ये सति सत्संगाभावे न भक्तिमार्गापरिचयात् । कर्ममार्गमात्रमाश्रमधर्मत्वेनालौकिकार्थसाधकत्वेनापि पूर्व ज्ञातमरतीति तदेव भगवद्वेदनेपि साधनमिति मन्यमानास्तदेव कुर्वन्ति । ननु वैदिकसाधनानां
वैयर्थ्यं कथमिति चेत् । न । भ्रम कृतत्वेपि जन्मान्तरीयाक्षरज्ञानोपयोगि१० संस्काराधायकत्वेनावैयर्थ्यात् ॥ ३।४।२० ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥३।४।२१॥
ननु साम्यश्रुतेर्हेतोः कर्भशेषत्वं ज्ञानस्य यदपास्तं तन्नोपपद्यते । साम्योक्तेमा॑नस्तुतिरूपत्वात् । अपि च तथा ज्ञानिनापि कोपादानात
कर्मकृतिस्वीकारादिति यावत् । अन्यथा ज्ञानिनां कर्मकृत्यभावेन तत्कृ१५ तगुणदोषाप्रसक्त्या तन्निषेधानुपपत्तिः स्यात् । तेषामपि तत्कृतगुणदोष
संबन्धोस्त्येवेति ज्ञापनाय मात्रपदम् । निषेधनेतरसाधारण्यं परिहियते । तथा च ज्ञानिनोपि कर्मकरणात् कर्मशेषत्वं ज्ञानस्य निष्प्रत्यूहमिति चेन्नैवं वक्तुं युक्तम् । पदज्ञानस्य कर्मफलासंबन्धफलकत्वस्यापूर्वत्वाद्विधेयत्वमेव । २० न हि यस्य कर्मणो ज्ञानस्य वा यत्फलं तदुक्तिरपि स्तुतिरेवेति
युक्तम् । तयोरुच्छेदापत्तेः । विधिर्हि प्रवर्तकः । तस्य पुरुषप्रवृत्त्युपयोग्यर्थकथनेनैव चारितार्थ्यादन्यार्थकथनस्य स्तुतित्वमस्तु नाम । न ह्येवं प्रकृते । मुमुक्षोः कर्मबन्धाभावप्रेप्सोस्तत्साधनत्वज्ञान एवं प्रवृत्तिसंभवात् । यच्च
कर्मफलसंबन्धनिषेधानुपपत्त्या कर्मसंबन्ध इत्युक्तम् । तन्न साधीयः । न हि २५ तरणौ तमःकार्याभाव इत्युक्ते तत्प्राप्तिरपि संभवति । अथवा पुरुषोत्तम
ज्ञानमुख्यफलस्यातिमहत्त्वेन साक्षाद्वक्तुमशक्यत्वं ज्ञापयन्ती कैमुतिकन्या