________________
२८१ १ पुरुषार्थोत इत्यधिकरणम् । [अ. 3 पा. ४ सू. २० ततपोहोमजपस्वाध्यायसंयमैः। श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते (भा. १।४७१२४ ) इति । एष नित्यो महिमा (बृ. ४।४।२३) इति श्रुतिरपि-यज्ज्ञाने सति विहितनिषिद्धकर्मफलासंबन्धस्तद्वित् स्यादित्यनुक्त्वा तस्यैव पदवित् स्यादिति यदुक्तवती तेन पदयोक्तिमार्गरूपत्वात् तत्रच ५ पदयोरेव सेव्यत्वेन मुख्यत्वात्तज्ज्ञानानुकूलप्रयत्नमेव पूर्वं विदधते। तेन
शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ( भा. १।९।३६) इति वाक्याच्च वर्णाश्रमधर्मा आत्मधर्माश्च पदज्ञानसाधनत्वेन कर्तव्या इति सिद्धम् । तस्यैव तच्छब्दस्य प्रसिद्धार्थकत्वाल्लोकवेदप्रसिद्धस्य पुरुषोत्तम१. स्यैव तत्रापि पदविदेव दीनभावेन भक्तिमार्गीयज्ञानवानेव स्यादित्येवकारः
सर्वत्रानुषज्यते । तथा सति भक्तौ जातायां स्वत एव भगवज्ज्ञानं भवतीति ज्ञापयितुं-तं विदित्वा (बृ. ४।४।२३) इति पश्चादुक्तवतीति तदाशयो ज्ञायते । अत एव पूर्वं कर्म निरूपितम् । साधनत्वात् ।
स्यादेतद् भक्तिसाधनत्वमेव चेत्कर्मणः श्रुतेरभिप्रेतं तदा भगवद्विदि १५ तत्फलासंबन्ध इत्यनुपपन्नमिति चेत् । मैवम् । कर्मणां हि भक्त्युत्पत्ती
स्वरूपयोग्यतासंपादकत्वमेव । नायमात्मा ( मुं. ३।२।३) इति श्रुतेः । कर्मज्ञानाभ्यामलभ्यत्वाद् भगवतः स्वरूपयोग्यतापेक्षापि मार्यादिकस्य नतु पौष्टिकस्यात एव वाशब्द उक्तो नियमवाची ! तथा सति भगवदनुग्रहश्चेत्तदा भक्तिस्तया पुरुषोत्तमज्ञानं तदा कर्मतत्फलसंबन्धगन्धोपि नेति किम२० नुपपन्नम् । एतेन--तमेव विदित्वा मुनिर्भवति । (बृ. ४।४।२२)
अग्राह्यो नहि गृह्यते (बृ. ३।९।३६) इत्यादिश्रुतीनां मिथो विरोधः परिहृतः। भक्तया ग्राह्यत्वात्तदितरसाधनाग्राह्यत्वात् । अत एव विविदिषन्ति न तु विदन्त्यपीत्याशयवती-तमेतं वेदानुवचनेन ( बृ. ४।४।२२ )
इति श्रुतिः पठ्यते । २५ नचानुपदमेव-तमेव विदित्वा मुनिर्भवति (बृ. ४।४।२२ ) इत्युक्तेः
सांनिध्यादुक्तसाधनैरेव वेदनमभिप्रेतमिति वाच्यम् । वेदानुवचनादीनां सर्वेषां वेदनसाधनन्वे सर्वेषां तत्कर्तृणां वेदनसंभवेन मुनिर्भवतीत्येकत्वं
३६ [ अणुभाष्य ]