________________
अ, 3 पा. सू. १९]
अणुभाष्यम् ।
२८०
तस्य कर्मणि प्रवृत्तिर्या सा न स्यादधिकाराभावात् । अथ जनकदृष्टान्तेन कर्मणोङ्गित्वं ज्ञानस्य तदङ्गत्वं वाच्यम् । तथा च ज्ञानवता कर्मानुष्ठेयमिति प्राप्ने प्रतिवदति । अनुष्ठेयं बादरायणः साम्यश्रुतेः । ज्ञानमङ्गं तदाङ्गित्वेनानुष्ठेयं कर्मेति मतं बादरायणोपवदतीति पूर्वेण संबन्धस्तत्र हेतुमाह । ५ साम्यश्रुतेरिति । स्वतोपुरुषार्थं कर्म फलार्थिनैवानुष्ठेयम् । तथा च-एष नित्यो महिमा (बृ. ४।४।२३) इति श्रुत्या ज्ञानवति विहितनिषिद्धयोः कर्मणोः फलाजनकत्वेन साम्यं श्रूयत इति फलार्थिप्रवृत्त्यसंभवेन ज्ञानिनस्तथात्वाभावेन कर्मोच्छेदप्रसक्त्या न ज्ञानस्याङ्गत्वं वक्तुं शक्यम् । कृषीवलस्य वीहीणां वपने भर्जनस्येव । तथा च ज्ञानिनः प्रवृत्त्यसंभवेनान्येषां १० च-अथेतरे दुःखमेवापि यन्ति-इति निन्दाश्रवणेन तथात्वात् सर्वार्थ
तत्त्वज्ञा श्रुतिर्ज्ञानबहिर्भूतं कर्म कथं विदध्यादिति ज्ञानस्य पुरुषार्थासाधकत्वोक्तिमसहमानेनाचार्येण प्रौढ्या निरूपितम् ॥ ३।४।१९ ॥ एवं सति पूर्वकाण्डवैयर्थ्यमापततीति तत्तात्पर्यमाह ।
विधिर्वा धारणवत् ॥ ॥४॥२०॥ १५ यथा योगशास्त्रे मनःसमाधेरेव साध्यत्वात् तत्साधनत्वेनैव मानस्या मूर्तेर्धारणं विधीयते न तु स्वतन्त्रतया फलसाधकत्वेन मनःसमाधी तत्त्यागात् । ततः किंचन न स्मरेत् । तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते (भा. ३०२८।३४ ) इत्यादिवाक्येभ्यस्तथा। तथा सति भक्तिसाधनत्वेनैवा
नुष्ठेयमिति तात्पर्येण कर्मविधिरुच्यते । न तु स्वतबतया फलसाधकत्वेन । २० ननु तत्र समाधिमधिकृत्य यमादीन्युक्तानीति तन्मध्यपातित्वेन धारणस्य
तथात्वमुच्यते । प्रकृते ज्ञानं भक्तिं वाधिकृत्य न कर्म विहितमिति दृष्टान्तवैषम्यमिति चेत् । न । उक्तानुपपत्त्या स्वानिन्द्यमेव कर्म अतिविदधातीत्यवश्यं वाच्यम् । निन्दायां चेतरपदाज्ञानमध्यपातिन एवं
तद्विषयस्य प्राप्तेरावश्यकत्वात् । तथाच भगवज्ज्ञानस्येतरनिरपे२५ क्षत्वेन स्वरूपोपकारित्वमस्य कर्मणो वाच्यम् । तथा चोक्तम् । दानव
3-M, A and I) read प्राप्त for प्राप्ते । 21-M, A and Cread युज्यते for उच्यते ।