________________
२७९
१ पुरुषार्थोत इत्यधिकरणम्। [ अ.3 पा. ४ सू. १९
तत्समाहितिरिति वाच्यम् । अत्र पृच्छामोन्धपङ्ग्वादिभिः प्रव्रजनं कार्यमिति विधिरस्त्याहोस्विद् यावज्जीवमग्निहोत्रविधायकवाक्यप्रव्रजनविधायकवाक्ययोर्विरोधाभावाय विषयो भिन्नः कल्प्यते । नाद्यः । अश्रुतेः।
न द्वितीयः । यदहरेव विरजेत् ( जा. ४) इति श्रुत्या वैराग्यवतः ५ प्रव्रजनविधानात्तेनैव विषयभेदसिद्धौ तत्कल्पनानवकाशात् । तेन-नापु
त्रस्य लोकोस्ति (ऐ. ब्रा. ७।१३।१२ ) इति श्रुतिरप्यविद्वद्विषयिणीति न विरोधः । विद्वांसः प्रजां न कामयते (बृ. ४।४।२२) इति श्रुतेः । एतेनर्णत्रयापाकरणमपि प्रत्युक्तं वेदितव्यम् । अविद्वाविषयत्वात् यदप्युक्तम् अचोदना चेति सूत्रावयवेन चोदनाबोधकलिङ्गाद्यभावो १० बाधक इति । तदपि न साधीयः । श्रुतिसाम्यादेव । श्रूयते हि तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत (बृ. ४।४।२३) इति । न च प्रमाणवस्तुपरतन्त्रत्वान्न ज्ञानस्य विधेयतेति वाच्यम् । इतरज्ञानस्य तथात्वेपि जीवात्मलक्षणेधिष्ठाने परमात्मनो भगवतो दर्शनस्यान्यतोप्राप्तत्वाच्छ्रद्धान्तसाधनस्तदर्शने स्वरूपयोग्यतासंप१५ त्तावात्मन्यधिष्ठाने परमात्मदर्शनानुकूलप्रयत्नविधानसंभवाच्छ्रवणविधिना
श्रुतिवाक्यजशाब्दज्ञानानुकूलप्रयत्नविधानवत् । एवमेव हि यागविधिनापि क्रियारूपयागस्य स्वानुकूलप्रयत्नाधीनत्वेन स प्रयत्न एव विधीयते । अन्याप्राप्तत्वात् । न तु क्रिया । तत्प्रयत्ने सति तस्याः स्वत
एव संभवात् । २० अथवा। ननु यथा वीरहेति श्रुत्या कर्मत्यागो निन्द्यते तथैव-असुर्या नाम
ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्त्यविद्वांसोबुधा जनाः " (ई.३) ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ति (बृ. ४।४।१४) इत्यादिश्रुत्या भगवज्ञानाभावो निन्द्यते । एवं सति कर्मज्ञानानुकूलप्रयत्न
योर्विधेयत्वे मिथोविरोधादधिकारिभेदेन विधेयत्वं वाच्यम् । नच-तावत्क२५ आणि कुर्वीत न निर्विद्येत यावता । ( भा. ११।२०।९ ) इति भगवद्वा
क्याद्रागिणः कर्म विधीयते तद्रहितस्य ज्ञानमिति वाच्यम् । जनको ह वैदेहो बहु दक्षिणेन यज्ञेनेजे (बृ. ३।१।१ ) इति श्रुतेर्नीरागत्वेन प्रसिद्धस्यापि