________________
अ. पा. सू. १८]
अणुभाष्यम् ।
२७८
धकत्वं वक्तुं शक्यम् । य एनं विदुरित्यादिस्तु यागेष्विज्यविष्णुस्तुतिपरेत्याशयेनाह । अचोदना चेति । जैमिनिवत्तत्सहायभूतेयमचोदना च परामर्शमपवदतीति संबन्धः । तथा च विधिसंबन्धात्कÉवानुष्ठेयम् । न तु मुक्तिसाधनमप्यतथात्वादिति स्थितम् ॥ ३।४।१८॥ ५ अनुष्ठेयं बादरायणः साम्यश्रुतेः॥ ४॥१९॥
बादरायण आचार्यो जैमिनेरपि गुरुस्तदेव कर्तव्यमिति शिष्यसंमतमनुष्ठेयं कर्मापवदतीति पूर्वेण संबन्धः । तत्र हेतुः । साम्यश्रुतेः । यथा-वीरहा वा एष देवानाम् (तै. सं. १।५।२ ) इति श्रुत्या कर्मत्यागकर्तुनिन्दा श्रूयते । एवमेव भगवज्ज्ञानरहितस्यापि सा श्रूयते यतः । १० तथाहि । असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभि
गच्छन्त्यविद्वांसोबुधा जनाः । ( ई. ३) एतदग्रेच-ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापि यन्ति (बृ. ४।४।१४ ) इत्यादिरूपा । एतच्च निन्दामात्रेण साम्यमुक्तमापाततः। वस्तुतस्तु-तमेतं वेदानुवचनेन विविदि
षन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनि१५ र्भवत्येतमेव प्रवाजिनो लोकमीप्सन्तः प्रव्रजन्ति ( बृ. ४।४।२२ ) इति
श्रुत्या ज्ञानसाधनत्वेनैवाश्रमकर्मकरणोक्तेश्च न स्वातन्त्र्यं कर्मणो वक्तुं शक्यम् । अत एव शुकस्य न ब्रह्मचर्यादिकमपि । फलस्य जातत्वेन तत्साधनानपेक्षणात् । न च स्वर्गकामपदश्रवणान्नैवमिति वाच्यम् । त्वदभिमतलोकात्मकस्वर्ग-यन्न दुःखेन संभिन्नम् इति २० वाक्यशेषोक्तस्वर्गपदप्रवृत्तिनिमित्तधर्माभावादात्मसुखस्यैव तादृशत्वात्तस्यैव
तत्रोक्तेः । एवं सति-तमेतं वेदानुवचनेन (बृ. ४।४।२२) इति श्रुत्येकवाक्यतापि संपद्यते । अन्यथातु विरोध एव । ननु दृष्टफलका अपि कारीगचित्रादियागाः श्रूयन्त इति नैवं निर्णय इति चेत् । उच्यते ।
नित्यकर्मणो हि ज्ञानसाधनत्वमुच्यते। व्रीहिपश्वादीनां तन्निर्वाहकत्वात्त५५ च्छेषत्वेन तेषां विधानम् । एवं सति वीरहेति श्रुतिः साग्निकस्य गृहिण
आलस्यादिदोषेण तदुद्वासने दोषमाह न त्वाश्रमान्तरपरिग्रह इति मन्तव्यम् । अन्यथा तदुच्छेदस्तद्विधिवैयर्थ्यं च स्यात् । न चानधिकृतमादाय