________________
२७७ : पुरुषार्थोत इत्यधिकरणम्। [अ. 3 पा. सु. १८ शक्यमित्यर्थः । नन्वेवं संन्यासवैयर्थ्यमिति चेन्न । ब्रह्मविदतिरिक्तसंगस्य भगवद्विस्मारकत्वेनावश्यत्याज्यत्वेन श्रुत्या कथनादत एव-वेदान्तविज्ञानसुनिश्चितार्थाः (म. ना. १०।६) इत्युक्त्वा संन्यासयोगाद्यतयः शुद्धसत्त्वाः (म. ना,१०।६) इत्युक्तम् । अत्र पञ्चम्यान्तःकरणे संस्कारविशेषाधायकत्वं ५ च प्रतीयते संन्यासस्य । स च संस्कारः फलोपकार्यङ्गमित्यावश्यकः संन्यासो मर्यादामार्गे । पुष्टिमार्गे त्वन्यैव व्यवस्था । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह (भा. ११।२०।३१ ) इति वाक्यात् ॥ ॥४।१७ ॥
परामर्श जैमिनिरचोदना चापवदति हि॥३॥४॥१८॥ १. उर्ध्वरेतःसु च ज्ञानोक्तस्तस्य मुक्तिफलकत्वोक्तेः-किं प्रजया
करिण्यामो येषां नायमान्मायं लोकः (बृ. ४।४।२२) इत्यादिश्रुतेश्च ब्रह्मप्राप्तांवव सर्वस्याः श्रुतेस्तात्पर्यमिति सिध्यति । तस्या एव सर्वक्लेशापायपूर्वकपरमानन्दरूपत्वान्न तु कर्मणि दुःखात्मकसंसारहेतुत्वात्तस्य जीवश्रेयोनिमित्तमेव श्रुतिप्राकट्यात्।अन्यथा निषेधविधिर्न स्यात्।तथा च कर्मविधिनापि १५ परंपरामोक्ष एव फलत्वेन परामृश्यत इति सिद्धम् । तं परामर्श कर्मस्वात
व्यवादी जैमिनिरपवदति बाधत इत्यर्थः । मोहकशास्त्रप्रवर्तकः स इतीश्वरमेव न मनुते यतोतस्तत्प्राप्तिस्तस्य मते दुरापास्ता । कर्मानधिकारिणामन्धादीनां संन्यासविधिविषयत्वम् । अन्यथा-वीरहा वा एष देवानां
योनिमुद्वासयते (तै. सं. १।१।५।२) इति श्रुतिर्न स्यादतो ब्रह्मचर्य २० समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्यादेव
प्रव्रजेद् गृहावनाद्वा (जा. ४) इति श्रुतेरप्यङ्गहीन एव स विषयो यत आयुर्भागविभागेनाश्रमाणां विधानम् । तुरीये तस्मिन् देहेन्द्रियादिवकल्यं नियतमतः कर्मण्येव श्रुतेस्तात्पर्यम् । अपि च ज्ञानकर्मणोरलौकिकफलसाधकत्वेन विहितत्वमेव प्रयोजकम् । अपरोक्षब्रह्मज्ञानं च न विधेयम् । २५ साक्षात्स्वकृत्यसाध्यत्वाच्चोदनाबोधकलिङ्गायभावाच्च ज्ञानस्य न मुक्तिसा
20-C reads इति निषेधविधिर्न for' इति श्रुतिर्न ।