________________
२७६
अंपा . सू. १६) अंणुभाष्यम् ।
उपमर्द च ॥३॥४॥१६॥ अनेन कर्माधिकाराभावे हेत्वन्तरमुच्यते । द्वैतभाने हि यथाकथंचित् कर्मकृतिसंभावनापि । यस्य त्वखण्डब्रह्माद्वैतभानं ब्रह्मेत्येव न त्विदं ब्रह्मेति सखण्डम् । अत्रोद्देश्यत्वेन प्रपञ्चस्यापि भानात् सखण्डत्वम् । तथा ५ चाखण्डतद्भाने कर्म तदधिकारादेरुपमर्द चैके शाखिनः पठन्तीति न ब्रह्मज्ञानस्य कर्मशेषत्वसंभावनापीत्यर्थः । श्रुतिस्तु-यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ. ४।५।१५) इत्यादिरूपा ॥ १४।१६॥
ऊर्ध्वरेतःसु च शब्दे हि ॥ २४॥१७॥
अत्रेदं विचार्यत । ब्रह्मचर्यानन्तरं गार्हस्थ्यमपि श्रुत्या बोध्यते । १० ब्रह्मचर्यादेव प्रव्रजेत् ( जा. ४ ) इत्यादिश्रुतिभिर्ब्रह्मचारिण एव च प्रव्रज
नमपि बोध्यत । एवं सत्यविरोधाय-यदहरेव ( जा. ४ ) इति श्रुतेश्च रागितद्रहितमेदेन विषयभेदो वाच्यः । तत्र ब्रह्मचर्याविशेषेपि भगवदनग्रहविशेषजचित्तशुद्धिविशेषजवेदान्तार्थपरिज्ञानमव हतुर्वाच्यः । वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ( म. ना. १०।६) १५ इति श्रुतिरिममेवार्थमाह । तथा चैतादृशा एवोर्ध्वरेतस इत्युच्यन्ते । एवं
सत्यूर्ध्वरेतःसु कर्माभाव उक्तरीत्या त्वयाप्यूरीकार्य इति ज्ञानरहितानां कर्मण्यधिकारस्तद्वतां संन्यास इति त्वदुक्ताद् विपरीतोर्थः सिध्यतीति क्व कर्मशेषत्वसंभावना ज्ञाने । ननु संन्यासेपि तदाश्रमीणं कर्मास्तीति वैराग्यसहकृतं ज्ञानमेतच्छेषभूतं तदसहकृतं तदग्निहोत्रादिशेषभूतमिति न २० वैपरीत्यामिति प्राप्त आह । शब्दे हीति । ज्ञानस्वरूप तत्फलं च न युक्तिसिद्धम् । किंतु वेदमात्रसिद्धम् । तत्र तु-तमेवं विद्वानमृत इह भवति । ( नृ. पू. १।६ ) ब्रह्मविदाप्नोति परम् । (ते. २१) य एवं विदुरमृतास्ते भवन्ति (बृ. ४।४।१४ ) इत्यादिवाक्यैब्रह्मज्ञानस्य
मोक्ष एव फलं श्रूयते । सर्वसाधनानां साक्षात्परंपराभेदेन तत्रैव पर्यवसा२५ नादतो धर्मिग्राहकमानविरोधात् संन्यासाश्रमीणकर्मशेषत्वमपि न वक्तुं
1 -M and A read द्वैतभावे for द्वतभाने ।