________________
२७५
१ पुरुषार्थात इत्यधिकरणं । [ अ. ३ पां. * सु. १५
1
रेवेति कथं न कर्मशेषत्वमित्युत्सूत्रमाशङ्कय निषेधति । नेति । यदहरेव विरजेत् ( जा. ४ ) इति श्रुते:- तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ( भा. ११ | २० | ९ ) इति भगवद्वाक्याच्च त्यागे वैराग्यस्य च प्रयोजकत्वादाश्रमविशेषे विशेषाभावादप्रयोजकत्वादित्यर्थः । यत्रापि क्वचित् ५ क्रमप्राप्तिस्तत्रापि न तज्ज्ञानं ब्रह्मज्ञानमिति पूर्वसूत्र एवोक्तमिति भावः । एतेन वेदाध्ययनादिकमप्यप्रयोजकमिति ज्ञापितम् । अत एव शुकस्य वैराग्यातिशयादुपनयनादेरप्यनपेक्षोच्यते । एवं सूत्रद्वयेन कर्माधिकारसंपादकत्वेन ब्रह्मज्ञानस्य तच्छेषत्वं निरस्तम् || ३|४|१३ ॥ अथ ग्रहिलतया ब्रह्मिष्ठ इत्यत्र ब्रह्मपदेन पर एवोच्यत इति वदास तत्रापि वदामः ।
१०
१५
स्तुतयेनुमतिर्वा || ३ | ४|१४ ॥
दर्शपूर्णमासावेतादृशौ यत्र ब्रह्मविदार्त्विज्याधिकारीति तत्स्तुत्यर्थं ब्रह्मिष्ठो ब्रह्मेत्यनेन ब्रह्मविद । प्यार्त्विज्येनुमतिः क्रियंत न तु तस्याधिकारित्वमभिप्रेतम् । उक्तानुपपत्तिभिरित्यर्थः || ३ | ४ | १४ ॥
कामकारेण चैके ॥ ३।४।१५ ॥
ननु - एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनी - यान् ( बृ. ४।४।२३ ) इति श्रुत्या ब्रह्मविदः कर्मकृतगुणदोषौ निषिध्येते । स च प्राप्तिपूर्वक इति बह्मविदः कर्मकरणमावश्यकमिति प्राप्ते ।
उच्यते। कामकारेणेति । करणं कारः कामेनेच्छया करणं काम२० कारस्तथाच परानुग्रहार्थमिच्छामात्रेण न तु विधिवशाद्यत् करणं तत् कामकार इत्युच्यते तथा चैवं कृते कर्मणि तत्कृतगुणदोषप्रसक्तौ तत्प्रतिषेधमेके शाखिन एष नित्य इत्यादि पठन्ति । न ह्येतावता कर्मकृत्याधिकारप्राप्तिरिति भावः । अथवा कामेन कारो यस्य स तथा । तादृशेन कर्मणा प्राप्तवृद्धिहासयोः संबन्धाभावं ब्रह्मविद्येके पठन्तीत्यर्थः । चका२५ रेणेश्वराज्ञया लोकसंग्रहार्थं कृतं कर्म समुच्चीयते । सर्वस्य वशी सर्वस्येशानः ( बु. ४।४।२२ ) इति श्रुतेस्तथा || ३|४|१५ ॥