________________
1. ३ प( ४ . १२]
अणुभाष्यम् ।
ब्रह्मरूपस्तदैव भवतीति युक्तं तस्य तदार्त्विज्यमेवं सति ब्रह्मपदं ब्राह्मण्यपरमपि संगच्छते ।
२७४
५.
अथवा वेदाध्ययनमात्रवतः कर्मण्यधिकारो न तु ब्रह्मविदोपी - त्यर्थः । न च तदन्तःपातित्वेन वेदान्तानामप्यध्ययनस्यावश्यकत्वे तत्प्रतिपाद्य ब्रह्मज्ञानस्याप्यवर्जनीयत्वात्तद्वत एव तत्राधिकार इति वाच्यम् । शाब्दपरोक्षज्ञानस्य ब्रह्मज्ञानत्वाभावात् न हि सिता मधुरेति शाब्दज्ञानमात्रांस्तन्माधुर्यज्ञो भवति । तथा सति पित्तोपशमादिकं तत्कार्यमपि स्यान्न त्वेवम् । अत एव च्छान्दोग्ये सनत्कुमारेण - यद्वेत्थ तेन मोपसीद ( छां. ७१ १/१ ) इत्युक्तो नारद ऋग्वेदमारभ्य सर्पदेवजनविद्यापर्यन्तं १० स्वाधीतमुक्त्वाह सोहं मन्त्त्रविदेवास्मि नात्मवित् ( छां. ७११।३ ) इत्यतोपरोक्ष ब्रह्मज्ञानमेव ब्रह्मज्ञानमुच्यते । अत एव तैत्तिरीयोपनिषत्सु - वेदान्तविज्ञानसुनिश्चितार्थाः ( म. ना. १०१६ ) इति पठ्यते । विज्ञानमनुभव एव न तु ज्ञानमात्रमतो दूरापास्तं कर्मशेषत्वं ब्रह्मणः । तं विद्याकर्मणी इत्यादिस्तु संसार्यात्मनः पूर्वदेहत्यागसामयिकं वृत्तान्तं १५ निरूपयति । न तु ब्रह्मविदिति - समन्वारम्भणात् ( ब्र. सू. ३/४/५ ) इति सूत्रमुपेक्षितमाचार्येण || ३ | ४|१२ ॥
यच्चोक्तं-नियमाच्च ( ब्र. सू. ३।४।७ ) इति तत्राह ।
नाविशेषात् ॥ ३।४।१३ ॥
आश्विनमित्यादिश्रुतिभ्यः कर्मकृतो यथा नियमः श्रूयते न तथा २० त्याग इति यदुक्तं तन्न । कुतः । अविशेषात् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ( म. ना. १०/५ ) इति श्रुतिः कर्मादिनामृतत्वाप्राप्तिमुक्त्वा तत्त्यागेन तां वदन्ती कर्मत्यागस्यावश्यकत्वं वदतीति तस्मान्न विशेषो यत इत्यर्थः । तथा चामृतत्वमानशुरिति पदान्मुमुक्षोः कर्मत्यागानियमोमुमुक्षोस्तत्कृतिनियम इति व्यवस्थेति भावः ।
२५
अथवा ननु क्रमप्राप्ते तुरीयाश्रमे हि कर्मत्यागो द्वितीये तस्मिन् कर्मकरणानयमस्तत्र च कर्तुरङ्गत्वेन तत्स्वरूपज्ञानमावश्यकम् । तच्च वेदान्तै