________________
२७३
? पुरुषार्थोत इत्यधिकरणम् । [अ. 3 पा. सू. ११
असार्वत्रिकी ॥ ३।४।१०॥ ब्रह्मविदां सर्वेषामेतदाचारं चेन्निरूपयेच्छ्रतिस्तदा त्वदुक्तं स्यान्न त्वेवम् । यत एतादृशी श्रुतिर्ब्रह्मवित्सु सर्वेष न श्रूयते । तथाहि । एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः। किमर्था वयमध्येण्यामहे किमर्था ५ वयं यक्ष्यामहे । एतद्ध स्म वै तत्पूर्व विद्वांसोग्निहोत्रं न जुहवांचक्रिरे । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवक्यः प्रववाज (बृ. ४।५।१५) इत्यादिश्रुतयो बढ्यस्तद्विदां कर्मत्यागमेवानुव
दन्त्यतस्त्यागपक्ष एव बलवान् ॥ १४।१० ॥ १० ननु ब्रह्मवित्त्वाविशेषेप्येकेषां कर्मकृतिरेकेषां तत्त्याग इति विभागः कुत इत्याशङ्कय तत्र हेतुमाह ।
विभागः शतवत् ॥३॥४॥११॥ __ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ. ४।३।३२) इति श्रुतेर्मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तं ये गणिता आनन्दास्ते सर्वे १५ पुरुषोत्तमानन्दात्मका एव । एवं सति येषु यावानानन्दो दत्तोस्ति तावन्तं
तं निरूपयन्त्यधिकतारतम्येन तद्दानमिति ज्ञापनाय शतोत्तरमानन्दं श्रुतिर्त्यरूपयत् । अत एव पुरुषायुःसंख्यासमानसंख्ययैवोत्कर्ष उक्तस्तेन पुरुषधर्मस्याधिकारस्यैवोत्कर्षः सच्यते । एवं प्रकृतेप्यन्यभावरहित्यतार
तम्येन भगवद्भावतारतम्यमत्र त्वनुग्रह एवाधिकाररूप इति तदुत्कर्षे २० त्यागस्तदनुत्कर्षे नेत्यर्थः ॥ ३।४।११॥ यच्चोक्तं तद्वतो विधानादिति तत्राह ।
अध्ययनमात्रवतः॥२४॥१२॥ यदुक्तं ब्रह्मिष्ठो ब्रह्मेत्यादि तत्र ब्रह्मशब्देन वेद एवोच्यते । न तु परस्तथा तं ब्रह्मत्वेनाविकृतशब्दरूपत्वं ज्ञात्वा सततं तदध्ययनमात्रं यः २५ करोति न तु तेन किंचित् कामयते तस्याधिकारो ब्रह्मत्वार्विज्य इत्युच्यते इति न ब्रह्मज्ञानस्य कर्मशेषत्वम् । प्रत्ययस्यातिशायनार्थकत्वादतिशयेन
३५ [ अणुभाष्य ]